SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २२५ [उभयादन्ति ] उभयौ दन्तावस्मिन् हनने = उभयादन्ति । [ उभाबाहु] उभौ बाहू अस्मिन् हनने = उभाबाहु । [ उभयाबाहु] उभये बाहवोऽस्मिन् प्रहरणे = उभयाबाहु । [उभाहस्ति पिबति] उभौ हस्तावस्मिन पाने = उभाहस्ति पिबति । [उभयाहस्ति] उभयौ हस्तौ अस्मिन् पाने = उभयाहस्ति । [ उभापाणि ] उभौ पाणी अस्मिन् पाने = उभापाणि । [ उभयापाणि ] उभयौ पाणी अस्मिन् पाने = उभयापाणि । [उभाञ्जलि] उभावञ्जली अस्मिन् = उभाञ्जलि । [ उभयाञ्जलि] उभयावञ्जली अस्मिन् = उभयाञ्जलि । [उभाकर्णि शृणोति ] उभौ को अस्मिन् श्रवणे = उभाकर्णि शृणोति । [उभयाकर्णि] उभयौ कर्णावस्मिन् = उभयाकर्णि । अनेन इच्समासान्तः → इ । यथाप्राप्तं 'इच्यस्वरे दीर्घ आच्च' (३।२।७२) दीर्घः आ । सर्वत्र 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य इवर्णस्य च लुक् । 'तिष्ठग्वित्यादयः' (३।१।३६) इत्यनेन समासः । .. [अन्तेवासि तिष्ठति] अन्ते वासोऽस्मिन् स्थाने = अन्तेवासि तिष्ठति । अनेन इच्समासान्तः → इ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [अन्तेवासी गुरोः] अन्त 'वसं निवासे' (९९९) वस् । अन्ते वसतीत्येवंशीलः = अन्तेवासी गुरोः । 'अजातेः ' शीले' (५।१।१५४) णिन्प्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घङ्याब' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [संहितपुच्छि धावन्ति ] संहितानि पुच्छानि अस्मिन् सरणे-गमने = संहितपुच्छि धावन्ति । अनेन इच्समासान्तः [एकपदि गच्छति] एकः पादोऽस्मिन् गमने = एकपदि गच्छति । अनेन इच्समासान्तः → इ । 'य-स्वरे पादः पदणि-क्य-घुटि' (२।१।१०२) "पद्"देशः । [सपदि गच्छति] समानौ पादावस्मिन् गमने = सपदि । अनेन इच्समासान्तः → इ । 'य-स्वरे पादः पदणि-क्यघुटि' (२।१।१०२) "पद्"देशः । [आच्यपदि शेते] 'अञ्चू गतौ च' (१०५) अञ्च् आपूर्व० । आ अञ्चनं पूर्वं । 'प्राक्काले' (५।४।४७) • क्त्वाप्र० → त्वा । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलुक् । 'अनञः क्त्वो यप्' (३।२।१५४) क्त्वास्थाने यप् → य । कोऽर्थः ? प्रसार्य प्राप्य वा आच्यपदि शेते । अनेन इच्समासान्तः → इ । 'य-स्वरे०' (२।१।१०२) "पद्"देशः ।। [प्रोडपदि हस्तिनं वाहयति] प्रोद्यपादौ हस्तिनं वाह्यति = प्रोडपदि । अनेन इच्समासान्तः → इ । 'य-स्वरे०' (२।१।१०२) "पद्"देशः ।। [निकुच्यकर्णि धावति] निकुच्य कौँ धावति = निकुच्यकर्णि । अनेन इजन्ताः सर्वेऽपि निपात्यन्ते । 'तिष्ठग्वित्यादयः' (३।१।३६) इत्यादिना अव्ययीभावः समासः सर्वत्र । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy