SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २२४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [डे ] ड सप्तमी ङि । [आसन्नबहवः] आसन्ना बहवो येषां ते = आसन्नबहवः । 'आसन्ना-ऽदूरा-ऽधिका-ऽध्य -ऽर्द्धादिपूरणं द्वितीयाद्यन्यार्थे' (३।१।२०) इत्यादिना बहुव्रीहिः समासः । जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव' . (१।२।२४) अव् । [ उपबहवः ] उप-समीपे बहवो येषां ते = उपबहवः । 'अव्ययम्' (३।१।२१) इत्यनेन समासः । जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । संख्यार्थेन 'प्रमाणी-संख्याड्डः' (७३।१२८) इत्यस्य प्राप्तौ 'शेषाद् वा' (७।३।१७५) कचपि न भवति । [ उपदशाः ] उप-समीपे दश येषां ते = उपदशाः । 'प्रमाणी-संख्याड्डः' (७।३।१२८) डप्र० --> अ । . 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । जस् । [प्रियबहुकः] प्रिया बहवोऽस्य = प्रियबहुकः । 'एकार्थं चानेकं च' (३।१।२२) इति सामान्यसमासः, ततः 'प्रमाणी-संख्याः ' ७३।१२८) इत्यत्र प्रतिपदोक्तबहुव्रीहेर्ग्रहणात् बहोर्वैपुल्यर्थत्वेन वा संख्यात्वाभावे डः समासान्तो न भवति, किन्तु 'शेषाद् वा' (७।३।१७५) कच् भवति ॥छ।। इच् युद्धे ॥ ७॥३७४ ॥ [इच्] इच् प्रथमा सि । [युद्धे] युद्ध सप्तमी ङि । [केशाकेशि] केशेषु च (२) आदाय कृतं युद्धं = केशाकेशि । अनेन इचप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'इच्यस्वरे दीर्घ आच्च' (३।२।७२) दीर्घः । प्रथमा सि । 'अव्ययस्य' (३२७) सिलुप् । एवमग्रेऽपि ज्ञेयम् । [ दण्डादण्डि] दण्डैश्च (२) मिथः प्रहृत्य कृतं युद्धं = दण्डादण्डि । अनेन इच्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'इच्यस्वरे०' (३२६७२) दीर्घः । [मुसलामुसलि] मुसलैश्च (२) मिथः प्रहृत्य कृतं युद्धं = मुसलामुसलि । अनेन इच्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'इच्यस्वरे०' (३।२।७२) दीर्घः । __ [मुष्टामुष्टि] मुष्टिभिश्च (२) प्रहृत्य कृतं युद्धं = मुष्टामुष्टि । अनेन इच्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । 'इच्यस्वरे०' (३।७२) दीर्घः । [अस्यसि] असिना च असिना च मिथः प्रहृत्य कृतं युद्धम् = अस्यसि । अनेन इच्प्र० →इ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ॥छ।। द्विदण्ड्यादिः ॥ ७।३७५ ॥ [द्विदण्ड्यादिः] द्विदण्डि इत्येवमादिर्यस्य सः = द्विदण्ड्यादिः । [द्विदण्डि प्रहरति] द्वौ दण्डावस्मिन् प्रहरणे = द्विदण्डि प्रहरति । अनेन इच्समासान्तः → इ । 'अवर्णेवर्णस्य' ' (७/४/६८) अलुक् । 'क्रियाविशेषणात्' (२।२।४१) इत्यनेन सर्वत्र अम् । 'अनतो लुप्' (३।२।६) लुप् । एवमग्रेऽपि । [द्विमुसलि] द्वौ मुसलावस्मिन् प्रहरणे = द्विमुसलि । अनेन इच्समासान्तः । [ उभादन्ति ] उभौ दन्तावस्मिन् हनने = उभादन्ति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy