SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [किंगवः] कस्य केषां वा गौः = किंगवः । 'गोस्तत्पुरुषात्' (७३।१०५) अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।। नञ्तत्पुरुषात् ॥ ७॥३७१ ॥ [ नञ्तत्पुरुषात्] नञा तत्पुरुषः = नञ्तत्पुरुषस्तस्मात् । [अनृक्] न ऋक् = अनृक् । 'अन् स्वरे' (३।२।१२९) अन् । [अराजा] न राजा = अराजा । 'नजत्' (३।२।१२५) न० → अ० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [असखा] न सखा = असखा । 'नबत्' (३।२।१२५) न० → अ० । सि । 'ऋदुशनस्०' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) इलुक् । [अपन्थाः ] न पन्थाः = अपन्थाः । 'नजत्' (३।२।१२५) न० → अ० । प्रथमा सि । 'थो न्थ्' (१।४।७८) न्थ्० । 'पथिन-मथिनुभुक्षः सौ' (१।४/७६) आ । 'र: पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः । [अपथम् ] न पथः = अपथम् । "पथः संख्याव्ययोत्तरः" इति नपुंसकत्वमित्युक्तं लिङ्गे। न पथमपथम् । सि-अम् । [कुपथम् ] कुत्सितः पथः = कुपथम् । [अधुरं शकटम् ] न विद्यते धूरस्य = अधुरं शकटम् । 'धुरोऽनक्षस्य' (७।३।७७) अत्समासान्तः → अ । 'एकार्थं चाऽनेकं च' (३।१।२२) इत्यादिना समासः । [अपथोऽयमुद्देशः] न विद्यते पन्था यत्र = अपथ: । 'ऋक्-पू:-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक, अयमुद्देशः । [अराजं वर्त्तते ] राज्ञामभावः = अराजम् । 'राजन्-सखे:' (७।३।१०६) अट्समासान्तः → अ ('अनः' (७।३।८८) अत्समासान्तः) । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् ॥छ।। पूजास्वतेः प्राक् टात् ॥ ७।३७२ ॥ [पूजास्वतेः ] सुश्च अतिश्च = स्वती । पूजायां स्वति(ती) = पूजास्वति(ती), तस्मात् । [प्राक् ] प्राक् प्रथमा सि । [टात्] ट पञ्चमी ङसि । [सुधूः ] शोभना धूः = सुधूः । प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । ‘पदान्ते' (२१२६४) दीर्घः । [अतिधूः ] अतिशायिनी धूः = अतिधूः । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । ‘पदान्ते' (२।१।६४) दीर्घः । [सुराजा ] शोभनो राजा = सुराजा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [अतिराजा] अतिशयितो राजा = अतिराजा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [सुधूः शकटम् ] शोभनो(ना) धूर्यत्र तत् = सुधूः शकटम् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । ‘पदान्ते' (२।१।६४) दीर्घः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy