SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २२१ [त्रिधुरी] त्रयाणां धुरां समाहारः = त्रिधुरी । 'धुरोऽनक्षस्य' (७३।७७) अत्समासान्तः → अ । 'द्विगो: समाहारात्' (२।४।२२) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक् । [वाग्दृषदिनी] वाक् च दृषच्च = वाग्दृषदम् । 'चवर्ग-द-ष-ह: समाहारे' (७।३।९८) अत्समासान्तः → अ । वाग्दृषदमस्यास्ति = वाग्दृषदिनी । 'प्राणिस्थादस्वाङ्गाद् द्वन्द्व-रुग्-निन्द्यात्' (७।२।६०) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादे8:' (२।४।१) ङी । [स्रक्वचिनी] स्रक् च त्वक् च = स्रक्त्वचम् । 'चवर्ग-द-ष-ह: समाहारे' (७।३।९८) अत्समासान्तः → अ । स्रक्त्वचमस्यास्ति = स्रक्त्वचिनी । 'प्राणिस्थादस्वाङ्गाद् द्वन्द्व-रुग्-निन्द्यात्' (७।२।६०) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतो०' (२।४।१) ङी ॥छ।। न किमः क्षेपे ॥ ७।३७० ॥ [न] न प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [किमः ] किम् पञ्चमी ङसि । [ क्षेपे] क्षेप सप्तमी ङि। क्षेपो निन्दा । [किंधूर्या न तथा गुर्वी ] कुत्सिता धूः = किंधूः । 'धुरोऽनक्षस्य' (७।३।७७) इत्यस्य प्राप्तेरनेन निषेधः । प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । ‘पदान्ते' (२।१।६४) दीर्घः ऊ । । [किंराजा यो न रक्षति ] कुत्सितो राजा = किंराजा । 'राजन्-सखे:' (७।३।१०६) इत्यस्य प्राप्तेरनेन निषेधः । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [स किंसखा योऽभिद्रुह्यति] कुत्सितः सखा = किसखा । 'राजन्-सखेः' (७३।१०६) इत्यस्य प्राप्तेरनेन निषेधः । प्रथमा सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) सि० → डा० । 'डित्यनत्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [किंगौर्यो न वहति ] कुत्सितो गौः = किंगौः । 'गोस्तत्पुरुषात्' (७।३।१०५) इत्यस्य प्राप्तेरनेन निषेधः । [किंधूः शकटम् ] का-कुत्सिता धूरस्य शकटस्य = किंधूः । [किमक्षिाह्मणः] के-कुत्सितेऽक्षिणी यस्य = किमक्षिाह्मणः । 'सक्थ्यक्ष्णः स्वाङ्गे (७३।१२६) इत्यनेन टो न भवति । - [कुराजः] कुत्सितो राजा = कुराजः । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लुक् । 'गति-क्वन्यस्तत्पुरुषः' (३।१।४२) इत्यादिना समासः । [दुःसखः] दुष्टः सखा = दुःसखः । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः → अ । 'अवर्णेवर्णन (७४।६८) इलुक् । 'दुनिन्दा कृच्छ्रे' (३।१।४३) इत्यादिना समासः । [किंसखः] कस्य सखा = किसखः । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः → अ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy