________________
२२०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां ।
__ [आभिजित्यायनः] अनेन पदेन निष्पन्नः आभिजित्य मण्ड्यते । आभिजित्यस्यापत्यं युवा = आभिजित्यायनः । 'यञिञः' (६।१।५४) आयनणप्र० → आयन । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[श्रीमतकः] श्रीमत्यस्यायं = श्रीमतकः । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) इत्यादिना अकप्र० → अक। वृद्धिः । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् ।
[आभिजितकः] आभिजित्यस्यायं = आभिजितकः । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकझ० → अक। वृद्धिः । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् ।
[श्रीमतकम् ] अनेन पदेन निष्पन्न: बहुत्वे श्रीमत मण्ड्यते । श्रीमतानां समूहः = श्रीमतकम् । 'गोत्रोक्ष-वत्सोष्ट्रवृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य-राजपुत्रादकञ्' (६।२।१२) अकप्र० → अक । वृद्धिः । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् ।
_ [आभिजितकम् ] अनेन पदेन निष्पन्नः बहुत्वे आभिजित मण्ड्यते । आभिजितानां समूहः = आभिजितकम् । 'गोत्रोक्ष-वत्सोष्ट्र-वृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य-राजपुत्रादक' (६।२।१२) अकप्र० → अक । वृद्धिः । 'तद्धितय०' (२।४।९२) यलुक् । __ [श्रीमतम् ] श्रीमत्यस्य सङ्घादि = श्रीमतम् । 'सङ्घ-घोषा-ऽङ्क-लक्षणेऽञ्-यजिञः' (६।३।१७२) अण्प्र० → अ। वृद्धिः । 'तद्धितय०' (२।४।९२) यलुक् । ___ [आभिजितम् ] आभिजित्यस्य सङ्घादि = आभिजितम् । 'सङ्घ-घोषा-ऽङ्क०' (६।३।१७२) अण्प्र० → अ । वृद्धिः । 'तद्धितय०' (२।४।९२) यलुक् ॥छ।।
समासान्तः ॥७।३।६९ ॥
[समासान्तः ] समासस्य अन्तः = समासान्तः । प्रथमा सि ।
अधिकारोऽयमापादपरिसमाप्तेः । ननु समासग्रहणं किमर्थम् ? अत इति सूत्रं क्रियते, यतोऽन्त इत्यधिकारे सति अग्रेतनाः प्रत्ययाः समासाद्विधीयमानाः सर्वेऽपि, अतः स्वयमेव समास इति लब्धम् । उच्यते-समासग्रहणं विस्पष्टार्थम् । कैः समासैः प्रयोजनम् ? बहुव्रीहव्ययीभावद्विगुद्वन्द्वसंज्ञाः । _[सुजम्भे सुजम्भानौ स्त्रियौ] जम्भ-जम्भु सुपूर्व० । शोभनो जम्भो जम्भवो ययोः ते । 'सु-हरित-तृणसोमाज्जम्भात्' (७।३।१४२) अन्प्र० । 'ताभ्यां वाऽऽप् डित्' (२।४।१५) डित् आप्प्र० → आ । 'डित्यन्त्यस्वरादेः' (२२१२११४) अ-उलुक् । औ । 'औता' (१।४।२०) ए । जम्भशब्दोऽभ्यवहार्यो दंष्ट्रावचनो वा । शोभनो जम्भा ययोः ते । 'सु-हरित-तृण-सोमाज्जम्भात्' (७३।१४२) अन्प्र० । 'समानानां०' (१।२।१) दीर्घः । औ स्त्रियौ । अत्रानो बहुव्रीहिग्रहणेन ग्रहणात् डाप् । 'अनो वा' (२।४।११) इत्यनेन ङीविकल्पः सिद्धः ।
[उपधुरम्] धुरः समीपम् = उपधुरम् । “धुरोऽनक्षस्य' (७३।७७) अत्समासान्तः → अ । प्रथमा सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) सि० → अम् । 'समानादमोऽतः' (१।४।४६) अलुक् ।
[उपशरदम् ] शरदः समीपम् = उपशरदम् । 'शरदादेः' (७।३।९२) समीपेऽर्थे अत्समासान्तः → अ । प्रथमा सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) सि० → अम्० । 'समानादमोऽतः' (१।४।४६) अलुक् ।
[द्विधुरी] द्वयोधुरोः समाहारः = द्विधुरी । 'धुरोऽनक्षस्य' (७।३।७७) अत्समासान्तः = अ । 'द्विगो: समाहारात्' (२।४।२२) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org