________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२१९
शामीवत्यः, शामीवत्यौ, शामीवताः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृद्धि: आ, ततोऽनेन यप्र० → य । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-औ । बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४) यञ्लुप् । जस् ।
[शैखावत्यः, शैखावत्यौ, शैखावताः ] शिखा विद्यते यस्य । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चम०' (२।१।९४) म० → व० । शिखावतोऽपत्यं - अपत्ये-अपत्यानि वा = शैखावत्यः, शैखावत्यौ, शैखावताः । 'ङसोऽपत्ये' (६।१।२८) अणप्र० + अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ, ततोऽनेन यप्र० । शेषं पूर्ववत् ।
[शालावत्यः, शालावत्यौ, शालावताः] शाला अस्यास्ति । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चमवर्गान्०' (२।१।९४) म० → व० । शालावतोऽपत्यं - अपत्ये-अपत्यानि वा = शालावत्यः, शालावत्यौ, शालावताः । 'ङसोऽपत्ये' (६१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः, ततोऽनेन यप्र० । शेषं पूर्ववत् ।
[और्णावत्यः, और्णावत्यौ, और्णावताः] ऊर्णा अस्यास्ति । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चमवर्गान' (२।१।९४) म० →व० । ऊर्णावतोऽपत्यं - अपत्ये-अपत्यानि वा = और्णावत्यः, और्णावत्यौ, और्णावताः । 'ङसोऽपत्ये' (६।१।२८) अणप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ, ततोऽनेन यप्र० । शेषं पूर्ववत् ।
[वैदभृत्यः, वैदभृत्यौ, वैदभृताः ] वेद 'टुडु,ग्क् पोषणे च' (११४०) भृ । वेदं विभर्ति = वेदभृत् । 'क्विप्' (५१।१४८) क्विप्प्र० । 'हस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । वेदभृतोऽपत्यं - अपत्ये-अपत्यानि वा = वैदभृत्यः, वैदभृत्यौ, वैदभृताः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ, ततोऽनेन यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । शेष पूर्ववत् ।
[आभिजित्यः, आभिजित्यौ, आभिजिताः] अभि "जिं अभिभवे' (८) जि । अभिजयतीति अभिजित् । 'क्विप्' (५।१।१४८) क्विप्र० । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अभिजितोऽपत्यं - अपत्ये-अपत्यानि वा = आभिजित्यः, आभिजित्यौ, आभिजिताः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ, ततोऽनेन यप्र० + य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । शेषं पूर्ववत् । ___ [श्रीमतम्] श्रुमत इदं = श्रीमतम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः औ । सि-अम् ।
[आभिजितो मुहूर्तः] अभिजिता चन्द्रयुक्तेन युक्तो मुहूर्तः = आभिजितो मुहूर्तः । 'चन्द्रयुक्तात् काले०' (६।२।६) अणप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ ।
[आभिजितः स्थालीपाकः] अभिजित् देवताऽस्य = आभिजितः स्थालीपाकः । 'देवता' (६।२।१०१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ ।
अपत्यप्रत्ययान्तात् स्वार्थिकोऽयं यञ् अपत्ये एव वर्त्तते इति तदाश्रयः प्रत्ययो भवति ।
[श्रीमत्यायनः] अनेन पदेन निष्पन्नः श्रीमत्य मण्ड्यते । श्रीमत्यस्यापत्यं युवा = श्रीमत्यायनः । 'यजिजः' (६१५४) आयनण्प्र० → आयन । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org