________________
२१८
स्त्रियां तु
[पर्शः] पर्शोरपत्यं बहवो माणवकाः । 'पुरु-मगध-कलिङ्ग०' (६|१|११६) अणुप्र० । 'शकादिभ्यो द्रेर्लुप्' (६।१।१२०) अण्लुप् । ते शस्त्रजीविसङ्घः स्त्रीत्वविशिष्टेऽनेन अण्प्र० । 'द्रेरञणोऽप्राच्य भर्गादेः' (६।१।१२३) अण्लुप् । 'उतोऽप्राणिनश्चायु-रज्ज्वादिभ्य ऊङ्' (२।४।७३) ऊङ्० ऊ । 'समानानां तेन दीर्घः' ( १ २ १) दीर्घः ।
दामन्यादेरीयः ॥ ७३॥६७॥
[ दामन्यादेः ] दामनिरादिर्यस्य सः = दामन्यादिः, तस्मात् ।
[ईय: ] ईय प्रथमा सि ।
[ दामनीयः, दामनीयौ, दामनयः ] दमनस्यापत्यं बहवः कुमाराः । 'अत इञ्' (६।१।३१) इञ्प्र० इ । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । ते शस्त्रजीविसङ्घः-सङ्घौ-सङ्घा वा = दामनीयः, दामनीयौ, दामनयः । अनेन ईयप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । सि-औ । बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४ ) ईयलुप् ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[ औलपीयः, औलपीयौ, औलपयः ] उपल (लप) स्यापत्यं बहवः कुमाराः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । ते शस्त्रजीविसङ्घः-सङ्घौ-सङ्घा वा = औलपीयः, औलपीयौ, औलपयः । अनेन ईयप्र० । शेषं पूर्ववत् । जस् ।
[ ककुन्दकि ] काकुन्दकि प्रकृतिः । पृषोदरादित्वात् ह्रस्वत्वम् । ककुन्दकि ।
गणोऽत्र ॥छ ।
श्रुमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदभिजितो गोत्रेऽणो यञ् ॥ ७।३।६८ ॥
[ श्रुमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदभिजितः ] श्रुमांश्च शमीवांश्च शिखावांश्च शालावांश्च ऊर्णावांश्च विदभृच्च अभिजिच्च = श्रुमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदभिजित् तस्मात् ।
[ गोत्रे ] गोत्र सप्तमी ङि ।
[ अण: ] अण् पञ्चमी ङसि ।
[ यञ् ] यञ् प्रथमा सि ।
शस्त्रजीविसङ्घादिति निवृत्तम् ।
मत् ।
[ श्रौमत्यः, श्रौमत्यौ, श्रौमताः ] श्रुरस्यास्ति श्रुमान् । 'तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७|२|१) मतुप्र० श्रुमतोऽपत्यं = श्रौमत्यः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० अ । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः औ, ततोऽनेन यञ्प्र० द्रिसंज्ञकः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-औ । 'यञञोऽश्यापर्णान्त - गोपवनादेः' (६।१।१२६) यञ्लुप् । जस् ।
=
[ श्रमत्यः, श्रमत्यौ, श्रैमताः] श्रीमतोऽपत्यं श्रैमत्यः । ‘ङसोऽपत्ये' (६।१।२८) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ, ततो मतान्तरेऽनेन यञ्प्र० । सि-औ । 'यञञोश्यापर्णान्त०' ( ६ | १|१२६) यञ्लुप् ।
Jain Education International
=
[ शामीवत्यः, शामीवत्यौ, शामीवता: ] शमी विद्यते यस्य । तदस्याऽस्त्यस्मिन्निति मतुः ' (७/२/१) मतुप्र० → मत् । ‘मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः' (२।१।९४) म०व० । शमीवतोऽपत्यं - अपत्ये अपत्यानि वा =
For Personal & Private Use Only
www.jainelibrary.org