________________
२१६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां हुण्ढिकायां ।
[गौपालिः, गौपाली] गोपालस्यापत्यानि = गौपालयः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । गौपालयः शस्त्रजीविसङ्घः = गौपालिः । गौपालयः शस्त्रजीविसङ्घौ = गौपाली । सि-औ।
[शालङ्कायनः, शालङ्कायनौ] शलङ्गोरपत्यानि । 'क्रोष्ट्र-शलङ्कोर्लुक् च' (६।१५६) आयनण्प्र० → आयन-उलुक् च । 'वृद्धिः स्वरेष्वा०' (७।४।१) वृद्धिः आ । शालङ्कायनाः शस्त्रजीविसङ्घः = शालङ्कायनः । शालङ्कायनाः शस्त्रजीविसङ्घौ = शालङ्कायनौ सि-औ ।
[राजन्यः, राजन्यौ] राज्ञोऽपत्यानि = राजन्या: । 'जातौ राज्ञः' (६।१२९२) यप्र० । राजन्याः शस्त्रजीविसङ्घः = राजन्यः । राजन्याः शस्त्रजीविसङ्गौ = राजन्यौ । सि-औ ।
[काम्बव्यः, काम्बव्यौ, काम्बव्या ] कम्बु मण्ड्यते । कम्बोरयं = काम्बवः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ। 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ। 'अस्वयम्भुवोऽव्' (७४/७०) अव् । काम्बवानां राजा - काम्बवस्यापत्यं वा 'दु-नादि-कुवित्०' (६।१।११८) ज्यप्र० । यद्वा कम्बोरपत्यानि । 'दु-नादि-कुवित्-कोशला०' (६।१।११८) ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । काम्बव्याः शस्त्रजीविसङ्घः = काम्बव्यः । काम्बव्याः शस्त्रजीविसङ्घौ = काम्बव्यौ । सि-औ । स्त्रियां तु 'आत्' (२।४।१८) आप्प्र० → आ ।
ज्यटि तु ङी: स्यात् । ब्राह्मणप्रतिषेधे ब्राह्मणविशेषप्रतिषेधः, न हि ब्राह्मणशब्दवाच्यो वाहीकेषु शस्त्रजीविसङ्गोऽस्ति । । राजन्ये तु स्वरूपविशेषस्य प्रतिषेधः । तदर्थमेव बहुवचनम् । अग्रेतनानि उदाहरणानि पूर्ववत् ज्ञेयानि ॥छ।।
वृकाट्टेण्यण् ॥ ७।३।६४ ॥ [वृकात्] वृक पञ्चमी ङसि । [टेण्यण्] टेण्यण् प्रथमा सि ।
[वार्केण्यः, वार्केण्यौ, वृकाः, वार्केणी स्त्री] वृकाः शस्त्रजीविसङ्घः = वार्केण्यः । वृकाः शस्त्रजीविसङ्घौ = वार्केण्यौ । वृकाः शस्त्रजीविसङ्घाः = वृकाः । अनेन टेण्यणप्र० → एण्य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'बहुष्वस्त्रियाम्' (६।१।१२४) लुप् । स्त्रियां तु-'अणजेयेकण-नञ्' (२।४।२०) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । वाहीकत्वे नित्यमवाहीकत्वे तु विकल्पेन ब्यटि 'शस्त्रजीवि०' (७।३।६२) इत्यादिना प्राप्ते वचनम् । एवमुत्तरसूत्रत्रयमपि ॥छ।।
यौधेयादेरञ् ॥ ७।३।६५ ॥ [यौधेयादेः] यौधेय आदिर्यस्य सः = यौधेयादिः, तस्मात् । [अञ्] अञ् प्रथमा सि ।
[यौधेयः, यौधेयौ, यौधेयाः] युधाया अपत्यं बहवः कुमाराः । 'द्विस्वरादनद्याः' (६।१।७१) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । ते शस्त्रजीविसङ्घः = यौधेयः । तौ = यौधेयौ । ते = यौधेयाः । अनेन अप्र० → अ । वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । सि-औ-जस् ।
[शौभ्रेयः] शुभ्रस्य अपत्यं बहवः कुमाराः । 'शुभ्रादिभ्यः' (६।१।७३) एयणप्र० → एय । ‘वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । ते शस्त्रजीविसङ्घः = शौभ्रेयः । अनेन अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org