SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २१५ परिव्राजः शः षः' (२।१।८७) ज० → ष० । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'धुटस्तृतीयः' (२।११७६) ष० → ड० । 'विरामे वा' (१।३।५१) ड० → ट० । [वागुरः, वागुरौ, वागुराः] वागुरा अस्यास्ति = वागुरः । वागुरा अनयोरस्ति = वागुरौ । वागुरा एष्वस्ति = वागुराः । 'अभ्रादिभ्यः' (७।२।४६) अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । सि-औ-जस् । नैते श्रेणिबद्धा इति न सङ्घाः । टकारो ङ्यर्थः । [शाबरी] अनेन निष्पन्नः शाबर्य मण्ड्य ते । 'अणजेयेकण्-नञ्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । [पौलिन्दी ] अनेन निष्पन्नः पौलिन्द्या मण्ड्यते । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । [कौन्ती ] कुन्तेरपत्यं बहवो माणवकास्ते शस्त्रजीविसङ्घः स्त्रीत्वविशिष्टो विवक्षितः । 'दु-नादि-कुर्वित्-कोशलाऽजादाभ्यः ' (६।१।११८) ज्यप्र० । 'कुन्त्यवन्तेः स्त्रियाम्' (६।१।१२१) लुप् । 'नुर्जातेः' (२।४/७२) ङी, ततः 'शस्त्रजीवि० (७३।६२) ज्यटप्र० । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । 'वृद्धि: स्वरे०' (७४।१) वृद्धिः औ ॥छ।। वाहीकेष्वब्राह्मण-राजन्येभ्यः ॥ ७।३।६३ ॥ [वाहीकेषु] वाहीक सप्तमी सुप् । [अब्राह्मणराजन्येभ्यः] ब्राह्मणाश्च राजन्याश्च = ब्राह्मणराजन्याः, न ब्राह्मणराजन्याः = अब्राह्मणराजन्याः, तेभ्यः = अब्राह्मणराजन्येभ्यः । पञ्चमी भ्यस् । [कौण्डीविश्यः, कौण्डीविश्यौ, कुण्डीविशाः] कुण्डी 'विशंत् प्रवेशने' (१४१५) विश् । कुण्डीमपि विशन्ति । 'मूलविभुजादयः' (५।१।१४४) कप्र० → अ । जस् । कुण्डीविशाः शस्त्रजीविसङ्घः = कौण्डीविश्यः । कुण्डीविशाः शस्त्रजीविसङ्घौ = कौण्डीविश्यौ । कुण्डीविशाः शस्त्रजीविसङ्घाः = कुण्डीविशाः । अनेन ज्यटप्र० → य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । सि-औ । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यट्लुप् । जस् । [क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः] क्षुद्रकाः शस्त्रजीविसङ्घः = क्षौद्रक्यः । क्षुद्रकाः शस्त्रजीविसङ्घौ = क्षौद्रक्यौ । क्षुद्रकाः शस्त्रजीविसङ्घाः = क्षुद्रकाः । अनेन ज्यटप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७/४/६८) अवर्णस्य लुक् । सि-औ । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यट्लुप् । जस् । . [मालव्यः, मालव्यौ, मालवाः] मालवस्यापत्यानि । 'दु-नादि-कुर्वित् कोशला-ऽजादाच्यः' (६।१।११८) ज्यप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । मालवाः शस्त्रजीविसङ्घः = मालव्यः । मालवाः शस्त्रजीविसङ्घौ = मालव्यौ । मालवाः शस्त्रजीविसङ्घाः = मालवाः । अनेन ज्यटप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । सि-औ । 'बहुष्वस्त्रियाम्' (६।१।१२४) लुप् । जस् । [शबरः, शबरौ] शबराः शस्त्रजीविसङ्घः = शबर इत्यादि पूर्वसूत्रेणापि विकल्पे ज्यट् प्रत्ययो न भवति । [पुलिन्दः, पुलिन्दौ ] पुलिन्दाः शस्त्रजीविसङ्घः = पुलिन्द इत्यादि पूर्वसूत्रेणापि विकल्पे ज्यट् प्रत्ययो न भवति । के म० वृत्तौ-कुण्ड्यां विशन्ति । - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy