________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
नानाजातीया अनियतवृत्तयः शरीरायासजीविनः सङ्घा वाताः ।
[कापोतपाक्यः, कापोतपाक्यौ, कपोतपाकाः] कपोतपाको वाताः । कपोतपाक एव = कापोतपाक्यः, तौ-ते । एवमग्रेऽपि ज्ञेयम् । अनेन ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । सि-औ-जस् ।
[हिमत्यः, वैहिमत्यौ, व्रीहिमताः] व्रीहिमतो वाताः = वैहिमत्यः । व्रीहिमतौ वाताः = नैहिमत्यौ । व्रीहिमता - व्राताः = व्रीहिमताः । अनेन ज्यप्र० → य । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । जस् ।
[कपोतपाका ] कपोतपाक एव = कपोतपाका । अत्र प्रत्ययो न कश्चित् । आप् । [व्रीहिमता स्त्री ] हिमतैव = व्रीहिमता । अत्र प्रत्ययो न कश्चित् । आप् ॥छ।।
शस्त्रजीविसङ्घायड् वा ॥ ७।३।६२ ॥ [शस्त्रजीविसङ्घात् ] शस्त्रजीविनां सङ्गः = शस्त्रजीविसङ्घः, तस्मात् । [ज्यट] ज्यट प्रथमा सि । [वा] वा प्रथमा सि ।
[शाबर्यः, शाबयौं, शबराः] शबराः शस्त्रजीविसङ्गः । शबर एव = शाबर्यः । शबरौ एव = शाबौँ । शबरा एव = शबराः । अनेन ज्यटप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-औ । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यट्लुप् । जस् ।
[पौलिन्द्यः, पौलिन्द्यौ, पुलिन्दाः] पुलिन्दाः शस्त्रजीविसङ्गः । पुलिन्द एव = पौलिन्द्यः । तौ = पौलिन्द्यौ । ते = पुलिन्दाः । अनेन ज्यटप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यट्लुप् । जस् ।
[कौन्त्यः, कौन्त्यौ, कुन्तयः ] कुन्तेरपत्यं बहवो माणवकाः = कुन्तयः । 'दु-नादि-कुर्वित्-कोशला-ऽजादाभ्यः' (५।१।११८) इत्यादिना ब्यप्र० → य । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । ते शस्त्रजीविः । कुन्तिरेव = कौन्त्यः । तौ शस्त्रजीविसङ्घौ । ते शस्त्रजीविसङ्घाः । अनेन ज्यटप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-औ । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यट्लुप् । जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
एवं शबरः पुलिन्द इत्यत्र विकल्पेन प्रत्ययो न भवति ।
[मल्लः, मल्ली, मल्लाः ] मल्ला: सङ्घः । मल्ल एव = मल्लः, तौ-मल्लौ । ते-मल्लाः । एतेषु प्रत्ययो न भवति । सि-औजस् ।
[शयण्डः, शयण्डौ, शयण्डाः ] शयण्डः सङ्गः । शयण्ड एव = शयण्डः । तौ-शयण्डौ । ते-शयण्डाः । एतेष प्रत्ययो न भवति । सि-औ-जस् ।
[सम्राट ] सम् 'राजृग् दीप्तौ' (८९३) राज् । सम्राजत इति सम्राट् । 'क्विप्' (५।१।१४८) क्विप्र० । 'सम्राट' (१।३।१६) इत्यनेन मकारस्य मः । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । 'यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रस्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org