SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । वचनग्रहणं पर्यायार्थम् [अर्द्धमनत्यन्तं भिन्नम्] अर्द्धमनत्यन्तं भिन्नं । [नेममनत्यन्तं भिन्नम् ] नेममनत्यन्तं भिन्नम् । एवं शकलं-खण्डमित्यादि । अन्ये तु समास एवोदाहरणम् -- [सामिकृतम् ] सामि कृतं = सामिकृतम् । 'स्वयं-सामि क्तेन' (३।१।५८) समासः । [अर्द्धकृतम्] अर्द्धं च तत् कृतं च = अर्द्धकृतम् । 'विशेषणं विशेष्येणैकार्थं कर्मधारयश्च' (३।१।९६) इत्यादिना समासः । ननु साम्यादिभिरेवानत्यन्तताया अभिहितत्वादुक्तार्थत्वेन कप् न प्राप्नोतीति व्यर्थः प्रतिषेधः ? उच्यते-साम्यादिभिः समुदायविषयक्रियाया एवानत्यन्तता प्रतीयते न स्वविषये । तत्रानत्यन्तविवक्षायां कप् प्राप्नोतीति प्रतिषेधवचनम् ॥छ।। नित्यं अ-जिनोऽण् ॥ ७॥३५८ ॥ [नित्यम् ] नित्य प्रथमा सि । [अजिनः ] जश्च जिन् च = अञिन्, तस्मात् । [अण्] अण् प्रथमा सि ।। नित्यग्रहणात् महाविभाषा निवृत्ता । [व्यावक्रोशी] वि-अव 'क्रुशं आह्वान-रोदनयोः' (९८६) क्रुश् । व्यवक्रोशनं = व्यावक्रोशी । 'व्यतिहारेऽनीहादिभ्यो ञः' (५।३।११६) अप्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । ततोऽनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अणजेयेकण्०' (२४।२०) ङी । 'न ब-स्वा(व)ङ्गादेः' (७४।९) इति वृद्धिरागमनिषेधः । [व्यावलेखी] वि-अव 'लिखत् अक्षरविन्यासे' (१३३६) लिख । व्यवलेखनं = व्यावलेखी । 'व्यतिहारेऽनीहादिभ्यो ञः' (५।३।११६) अप्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । ततोऽनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'न -स्वा(व)ङ्गादेः' (७।४।९) इति वृद्धिरागमनिषेधः ।। [व्यावहासी वर्त्तते ] वि-अव 'हसे हसने' (६४५) हस् । व्यवहसनं = व्यावहासी । 'व्यतिहारेऽनीहादिभ्यो ञः' (५।३।११६) अप्र० → अ । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । ततोऽनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । 'अणजेयेकण्०' (२।४।२०) ङी । 'न ब-स्वा(व)ङ्गादेः' (७।४।९) इति वृद्धिरागमनिषेधः । [सांकोटिनम् ] सम्-कोट । समन्तात् कोटः = सांकोटिनम् । 'अभिव्याप्तौ भावेऽन-जिन्' (५।३।९०) जिन्प्र० → इन् । 'अतः' (४।३।८२) अलुप् । ततोऽनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अनपत्ये' (७४।५५) अन्त्यस्वरादिलुबभावः । [सांराविणम्] समन्तात् रावः = सांराविणम् । 'अभिव्याप्तौ भावेऽन-जिन्' (५।३।९०) जिन्प्र० → इन् । 'अतः' (४।३।८२) अलुप्, ततोऽनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अनपत्ये' (७४।५५) अन्त्यस्वरादिलुबभावः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy