SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २११ [छिन्नकम्] अनत्यन्तं छिन्नं = छिनकम् । अनेन कप्प्र० → क । सि-अम् । [भिन्निका घटी] अनत्यन्तं भिन्ना = भिन्निका । अनेन कप्प्र० → क । 'आत्' (२।४।१८) आप्प्र० → आ । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) इत्यादिना पुंवद्भावः । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इ । [छिन्निका रज्जुः] अनत्यन्तं छिन्ना = छिनिका रज्जुः । अनेन कप्प्र० → क । 'आत्' (२।४।१८) आप्प्र० → आ । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवद्भावः । 'अस्याऽयत्०' (२।४।१११) इ । तमबाद्यन्तात् क्तात् [भिन्नतमकम् ] प्रकृष्टं भिन्नं = भिन्नतमम् । 'प्रकृष्टे तमप्' (७।३।५) तमप्र० → तम । अनत्यन्तं भिन्नतमं = भिन्नतमकम् । अनेन कप्प्र० → क। [भिन्नतंरकम् ] द्वयोर्मध्ये प्रकृष्टं भिन्नं = भिन्नतरम् । 'द्वयोविभज्ये च तरप्' (७।३।६) तर प्र० → तर । अनत्यन्तं भिन्नतरं = भिन्नतरकम् । अनेन कप्प्र० → क । [भिन्नकल्पकम् ] ईषदपरिसमाप्तं भिन्नं = भिन्नकल्पम् । 'अतमबादेरीषदसमाप्ते कल्पप्-देश्यप-देशीयर' (७।३।११) कल्पपप्र० - कल्प । अनत्यन्तं भिन्नकल्पं = भिन्नकल्पकम् । अनेन कपप्र० → क । - [छिन्नतमकम् ] प्रकृष्टं छिन्नं = छिनतमम् । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० → तम । अनत्यन्तं छिनतमं = छिनतमकम् । अनेन कप्प्र० → क। [छिन्त्रतरकम् ] द्वयोर्मध्ये प्रकृष्टं छिन्नं = छिनतरम् । 'द्वयोविभज्ये०' (७३।६) तरपप्र० → तर । अनत्यन्तं छिनतरं = छिनतरकम् । अनेन कप्प्र० → क । [छिन्नकल्पकम् ] ईषदपरिसमाप्तं छिन = छिनकल्पम् । 'अतमबादेरीषदसमाप्ते कल्पप्०' (७।३।११) कल्पप्प्र० → कल्प । अनत्यन्तं छिनकल्पं = छिन्नकल्पकम् । अनेन कप्प्र० → क । तमबाद्यन्तेषु क्तान्तता नास्तीति तमबादिग्रहणम् । असमासस्तमबादेरित्यत्रापि क्तादित्यस्य सम्बन्धार्थः ॥छ। न सामिवचने ॥ ७।३५७ ॥ [न] न प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [सामिवचने] सामिवचन सप्तमी ङि । सामि अर्द्धः, सामि वक्तीति सामिवचनः । 'नन्द्यादिभ्योऽनः' (५।१।५२) अनप्र०, तस्मिन् । [सामि अनत्यन्तं भिन्नम्] सामि अनत्यन्तं भिन्नमिति वाक्यमेव, न कप् । [कृतम्] सामि अनत्यन्तं कृतमिति वाक्यमेव । न कप् । [भुक्तम् ] सामि अनत्यन्तं भुक्तमिति वाक्यमेव, न कप् । [पीतम्] सामि अनत्यन्तं पीतमिति वाक्यमेव, न कप् । [भिन्नतमम् ] सामि अनत्यन्तं भिन्नतममिति वाक्यमेव, न कप् । [भिन्नतरम् ] सामि अनत्यन्तं भिन्नतरमिति वाक्यमेव, न कप् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy