SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [यतमो यतरो वा भवतां कठस्ततमस्ततरो वा आगच्छतु] बहूनां एषां वा मध्ये यः = यतमः, यतरः । अनेन डतमप्र० → अतम० - डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१।११४) अद्लुक् । बहूनां मध्ये सः = ततमः, ततरो वा । अनेन डतमप्र० → अतम - डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१।११४) अद्लुक् । __ [कतमः कतरो वा भवतां कठः] बहूनां मध्ये कः = कतमः, कतरः । अनेन डतमप्र० → अतम - डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१२११४) "इम्" लुक् । [अन्यतमोऽन्यतरो वा] बहूनां मध्येऽन्योऽन्यतमः, अन्यतरो वा भवतां कठः । अनेन डतमप्र० → अतम - डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । [शुचिवल्कवीतवपुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः - किराते] तिमिर 'छिदंपी द्वैधीकरणे' (१४७८) छिद् । तिमिरं छिन्दन्ति । क्विप्र० । 'अप्रयोगीत्' (१।११३७) क्विप्लुक्, तेषाम् = तिमिरच्छिदाम् । वावचनमगर्थम् [यको भवतां कठः सक आगच्छतु] बहूनां मध्ये यः = यको भवतां कठः । 'लोकात्' (१।१।३) "अद्"अग्रे विश्लेषियइ । 'त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्' (७।३।२९) अक्प्र० । प्रथमा सि । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । बहूनां मध्ये स: = सकः । 'लोकात्' (१।१।३) "अद्" अग्रे विश्लेषियइ । 'त्यादि-सर्वादे:०' (७।३।२९) अक्प्र० । [अन्यक एषां कालापः ] बहूनां मध्येऽन्यः = अन्यकः । 'त्यादि-सर्वादेः०' (७।३।२९) "अ"पूर्वमक् । बहूनां मध्ये कः क आलापः । 'त्यादि-सर्वादे:०' (७।३।२९) इम् प्राक् अक् । 'किमः कस्तसादौ च' (२२११४०) "क"देशः । महावाधिकारात् प्रत्ययो न भवत्यपि । एवं य इत्यत्र न किमपि प्रत्ययः, मतत्रयेऽप्यभिधानमेव श्रेय इति भावार्थः ॥छ।। वैकात् ॥ ७।३.५५ ॥ [वा] वा प्रथमा सि । [एकात्] एक पञ्चमी ङसि । [एकतमो भवतां कठः पटुर्गन्ता देवदत्तो दण्डी वा, एककः, एको भवतां कठः] एषां मध्ये एकः = एकतमः । अनेन डतमप्र० → अतम । 'डित्यन्त्यस्वरादेः' (२२२११४) अलुक् । भवतां कठः पटुर्गन्ता देवदत्तो दण्डी वा । एवम्-एककः । 'त्यादि-सर्वादेः०' (७।३।२९) अक् । महावाधिकारान्न भवति । एवम्-एकः इत्यत्र न किमपि । पृथग्योगो डतरनिवृत्त्यर्थः ॥छ।। तात् तमबादेश्चानत्यन्ते ॥ ७।३।५६ ॥ [क्तात्] क्त पञ्चमी ङसि । [तमबादेश्च] तमप् आदिर्यस्य सः = तमबादिः, तस्मात् । च प्रथमा सि । [अनत्यन्ते ] न अत्यन्तम् = अनत्यन्तम्, तस्मिन् । क्रियायाः स्वेनाश्रयेण 'सहार्थे' (२।२।४५) तृतीया । साकल्येन करणे तृतीया । अनभिसम्बन्धोऽनत्यन्तता । [भिन्नकम् ] अनत्यन्तं भिन्नं = भिन्नकम् । अनेन कप्प्र० → क । सि-अम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy