________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२०९
वैकाद् द्वयोर्निर्धार्ये डतरः ॥ ७॥३५२ ॥ [वा] वा प्रथमा सि । [एकात्] एक पञ्चमी ङसि ।
[द्वयोः] द्वि सप्तमी ओस् । 'आ द्वेरः' (२।१।४१) इ० → अ० । 'एद् बहुस्भोसि' (१।४।४) ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[निर्धार्ये ] निर् 'धृत् स्थाने' (१४६७) धृ । ध्रियमाणं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । निर्धार्यते = निर्धार्यः । 'य एच्चातः' (५।१।२८) यप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक्, तस्मिन् ।
[डतरः] डतर प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३५३) विसर्गः । समुदायादेकदेशो जातिगुणक्रियासंज्ञाद्रव्यैर्निष्कृष्य बुद्ध्या पृथक्रियमाणो निर्धार्यः ।
[एकतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा, एकको भवतोः कठः पटुर्वा, एको भवतोः पटुः] द्वयोर्मध्ये एकः = एकतरः । अनेन डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलोपः । भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा । महावाधिकारेणैव सिद्धे किमर्थं वावचनमित्याशङ्काया उत्तरमाह-वावचनमगर्थम् । यथा एककः, वाक्यं पूर्ववत् । 'लोकात्' (१।१।३) "अ"अग्रे विश्लेषियइ । 'त्यादि-सर्वादेः०' (७३।२९) अप्र० । महावाधिकारान्न भवत्यपि अग्रेतने उदाहरणे ॥छ।
यत्-तत्-किमन्यात् ॥ ७॥३५३ ॥ [यत्तत्किमन्यात् ] यच्च तच्च किम् च अन्यच्च = यत्तत्किमन्यत्, तस्मात् । - [यतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा ततर आगच्छतु ] द्वयोर्मध्ये यः = यतरः । अनेन डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । द्वयोर्मध्ये सः = ततरः । अनेन डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[कतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा] द्वयोर्मध्ये कः = कतरः । अनेन डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१।११४) "इम्"लुक् ।
[अन्यतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा] द्वयोर्मध्येऽन्यः = अन्यतरः । अनेन डतरप्र० → अतर। 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । महावाधिकारात् प्रत्ययो न भवति अग्रेतने उदाहरणे ॥छ।।
बहूनां प्रश्ने डतमश्च वा ॥ ७।३५४ ॥ [बहूनाम् ] बहु षष्ठी आम् । [प्रश्ने] प्रश्न सप्तमी ङि । [डतमश्च] डतम प्रथमा सि । च प्रथमा सि । [वा] वा प्रथमा सि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org