SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [शमीरुः, शमीरः] ह्रस्वा शमी = शमीरुः, शमीरः । अनेन रु-रप्र० ॥छ। कुत्वा डुपः ॥ ७।३।४९ ॥ [कुत्वाः ] कुतू पञ्चमी ङसि । [डुपः ] डुप प्रथमा सि । [कुतुपः ] ह्रस्वा कुतूः = कुतुपः । अनेन डुपप्र० → उप । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऊलुक् । कुतूरिति चर्ममयं तैलाधावपनमुच्यते ॥छ।। कासू-गोणीभ्यां तरट् ॥ ७३५० ॥ [कासूगोणीभ्याम् ] कासू च गोणी च = कासूगोण्यौ, ताभ्याम् = कासूगोणीभ्याम् । पञ्चमी भ्याम् । [ तरट्] तरट् प्रथमा सि । [कासूतरी] 'कस गतौ' (९८७) कस् । कसतीति कासूः । कसि-पद्यादिभ्यो णित् (उणा० ८३५) णिद् ऊप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । हूस्वा कासूः = कासूतरी । अनेन तरट्प्र० → तर । 'अणजेयेकण-नस्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । कासूः शक्तिर्नामायुधम् । [गोणीतरी ] ह्रस्वा गोणी = गोणीतरी । अनेन तरट्प्र० → तर० । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य । यां लुक्' (२।४।८६) अलुक् । गोणी धान्यावपनम् ॥छ।। वत्सोक्षा-ऽश्वर्षभाद्धासे पित् ॥ ७।३।५१ ॥ [वत्सोक्षाऽश्वर्षभात् ] वत्सश्च उक्षा च अश्वश्च ऋषभश्च = वत्सोक्षाऽश्वर्षभम, तस्मात् । [हासे ] हास सप्तमी ङि। [पित्] प् इदनुबन्धो यस्य सः = पित् । [वत्सतरः] हसितो वत्सः = वत्सतरः । अनेन तरट्प्र० → तर । वत्सः प्रथमवयस्को गौः, तस्य हासो द्वितीयवयःप्राप्तिः । [उक्षतरः] हसित उक्षा = उक्षतरः । अनेन तरट्प्र० → तर । उक्षा द्वितीयवयास्तरुणस्तस्य हासस्तृतीयवयःप्राप्तिः । [अश्वतरः] हुसितोऽश्वोऽश्वतरः । अनेन तरट्प्र० → तर । अश्वेनाश्वायां जातोऽश्वस्तस्य हासो गर्दभपितृकता । आशुगमनाद्वाश्वस्तस्य हासो गमने मन्दता । सर्वथाश्वतरशब्दो जातिशब्दः । [ ऋषभतरः] इसित ऋषभः = ऋषभतरः । अनेन तरटप्र० → तर । ऋषभोऽनड्वान् बलीयान्, तस्य हासो भारवहने मन्दशक्तिताविष्करणम् । पित्करणं पुंवद्भावार्थम् । [वत्सतरी] हुसिता वत्सा = वत्सतरी । अनेन तरट्प्र० → तर । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवद्भावः । 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । [अश्वतरी] हसिताश्वा = अश्वतरी । अनेन तरट्प्र० → तर । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवद्भावः । 'अणजेयेकण्०' (२।४।२०) ङी ॥छ। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy