________________
२०६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[सुपरियः, सुपरिकः, सुपरिलः] अनुकम्पितः सुपरिदत्तः = सुपरियः, सुपरिकः, सुपरिलः । 'अजातेनूनाम्नो०' (७।३।३५) इय-इक-इलप्र० । अनेन दत्तस्य लुक् । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[विशालियः, विशालिकः, विशालिलः] अनुकम्पितो विशालदत्तः = विशालियः, विशालिकः, विशालिलः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । अनेन दत्तशब्दस्य लुक् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वरुणियः, वरुणिकः, वरुणिलः] अनुकम्पितो वरुणदत्तः = वरुणियः, वरुणिकः, वरुणिलः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । अनेन दत्तशब्दस्य लुक् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[अर्यमियः, अर्यमिकः, अर्यमिलः] अनुकम्पितः अर्यमदत्तः = अर्यमियः, अर्यमिकः, अर्यमिलः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । अनेन दत्तशब्दस्य लुक् । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
अत्राप्यकृतसन्धिरेव लोपः ।
[शेवलिकः] शेवलेन्द्रदत्तोऽनुकम्पितः = शेवलिकः । 'अजातेनूनाम्नो०' (७३।३५) इकप्र० । अनेन इन्द्रदत्तलुक् । 'अवर्णेवर्णस्य' (७४।६८) अलुक्, इति यथा स्यात् ।
[सुपरिकः] सुपर्याशीर्दत्तोऽनुकम्पितः = सुपरिकः । 'अजातेन॒नाम्नो०' (७।३।३५) इकप्र० । अनेन आशीर्दत्तलुक् । 'ऋवर्णोवर्णात् स्वरादेरादेर्लुक् प्रकृत्या च' (७।३।३७) इकारलुक् ।
. [विशाखिलः] अनुकम्पितो विशाखदत्तः = विशाखिलः । 'अजातेन॒नाम्नो०' (७३।३५) इलप्र० । मतान्तरे अनेन दत्तलुक् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
[कुमारिलः] अनुकम्पितः कुमारदत्तः = कुमारिलः । 'अजातेनूनाम्नो०' (७।३।३५) इलप्र० । मतान्तरे अनेन दत्तलुक् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
क्वचित् तुर्यात् ॥ ७।३।४४ ॥ [क्वचित् ] क्वचित् प्रथमा सि ।। [तुर्यात् ] तुर्य पञ्चमी ङसि ।
[बृहस्पतियः, बृहस्पतिकः, बृहस्पतिलः ] अनुकम्पितो बृहस्पतिदत्तः बृहस्पतिशर्म वा = बृहस्पतियः, बृहस्पतिकः, बृहस्पतिलः । 'अजातेन॒नाम्नो०' (७३।३५) इय-इक-इलप्र० । अनेन दत्त-शर्मन् शब्दलुक्। 'अवर्णेवर्णस्य' (७४।६८) इलुक्। [प्रजापतियः, प्रजापतिकः, प्रजापतिलः] अनुकम्पितः प्रजापतिदत्तः = प्रजापतियः, प्रजापतिक., प्रजापतिलः ।
बहुस्वरादियकेल वा' (७।३।३५) इय-इक-इलप्र० । अनेन दत्तलुक् । 'अवर्णवणस्य' (७४।६८) इलुक् । अकृतसन्धिरित्येव पूर्ववत् ।
[प्रजापतिकः] प्रजापत्याशीर्दत्तोऽनुकम्पितः = प्रजापतिकः इति यथा स्यात् । 'अजातेन॒नाम्नो०' (७।३।३५) इकप्र० । अनेन आशीर्दत्तलक । प्रजापत्यिक इति मा भूत् ।
क्वचिद्ग्रहणादिह न भवति - [ उपडः, उपकः, उपियः, उपिकः, उपिलः] अनुकम्पित उपेन्द्रदत्तः = उपडः, उपकः, । शेषं पूर्ववत् ॥छ।।
पूर्वपदस्य वा ॥ ७।३।४५ ॥ [पूर्वपदस्य] पूर्वपद षष्ठी ङस् । [वा] वा प्रथमा सि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org