SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २०५ [उपडः, उपकः, उपियः, उपिकः, उपिलः] अनुकम्पित उपेन्द्रदत्तः = उपडः, उपकः, उपियः, उपिकः, उपिलः । 'वोपादेरडाको च' (७३।३६) अड-अक-इय-इक-इलप्र० । अनेन इन्द्रदत्तस्य लुक् । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [पितृयः, पितृकः, पितृलः ] अनुकम्पितः पितृदत्तः = पितृयः, पितृकः, पितृल: । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । अनेन उत्तरपददत्तरूपस्य लुक् । 'ऋवर्णोवर्णात् स्वरादेरादेर्लुक् प्रकृत्या च' (७।३।३७) इकारलुक् । [वायुयः, वायुकः, वायुलः] अनुकम्पितो वायुदत्तः = वायुयः, वायुकः, वायुलः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । अनेन उत्तरपदलुक् । 'ऋवर्णोवर्णात् स्वरादे०' (७।३।३७) इकारलुक् ।। ऊर्ध्वग्रहणं सर्वलोपार्थम् ॥छ।। सन्ध्य क्षरात् तेन ॥ ७।३।४२ ॥ [सन्ध्यक्षरात्] सन्ध्यक्षर पञ्चमी ङसि । [तेन] तद् तृतीया टा। [कुबियः, कुबिकः, कुबिलः] अनुकम्पितः कुबेरदत्तः = कुबियः, कुबिकः, कुबिलः । 'अजातेन॒नाम्नो बहुस्वरादियेकेलं वा' (७३।३५) इय-इक-इलप्र० । अनेन एरदत्तरूपपदस्य लुक् । [कहियः, कहिकः, कहिलः] अनुकम्पितः कहोड: = कहियः, कहिकः, कहिलः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । अनेन ओडरूपपदस्य लुक् । [लहियः, लहिकः, लहिलः ] अनुकम्पितो लहोड: = लहियः, लहिकः, लहिलः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । अनेन ओडशब्दस्य लुक् । [कंपियः, कपिकः, कपिलः ] अनुकम्पितः कपोतरोमा = कपियः, कपिकः, कपिकः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । अनेन ओतरोमन् शब्दस्य लुक् । [अमियः, अमिकः, अमिलः] अनुकम्पितोऽमोघः अमोघदत्तो वा अमोघजिह्वो वा = अमियः, अमिकः, अमिलः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । अनेन ओघ-ओघदत्त-ओघजिह्वरूपं उत्तरस्य लुक् । [गुरुयः, गुरुकः, गुरुलः] अनुकम्पितो गुरुदत्तः = गुरुयः, गुरुकः, गुरुलः । 'अजातेन॒नाम्नो०' (७।३।३५) इय-इक-इलप्र० । 'द्वितीयात् स्वरादूर्ध्वम्' (७।३।४१) दत्तरूप उत्तरपदस्य लुक् । 'ऋवर्णोवर्णात् स्वरादेरादेर्लुक् प्रकृत्या च' (७३।३७) इकारस्य लुक् ॥छ।। शेवलाद्यादेस्तृतीयात् ॥ ७।३।४३ ॥ [शेवलाद्यादेः ] शेवल आदिर्यस्य सः = शेवलादिः । शेवलादिरादिर्यस्य तत् = शेवलाद्यादि, तस्य । [तृतीयात्] तृतीय पञ्चमी ङसि । 'द्वितीयात् स्वरादूर्ध्वम्' (७।३।४१) इत्यस्यापवादः । [शेवलियः, शेवलिकः, शेवलिलः] अनुकम्पितः शेवलदत्तः = शेवलियः, शेवलिकः, शेवलिलः । 'अजाते“नाम्नो बहुस्वरादियेकेलं वा' (७३।३५) इय-इक-इलप्र० । अनेन दत्तस्य लुक् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy