SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०४ [ सिंहका: ] अनुकम्पिताः सिंहाजिना: (२|४|१८) आप्प्र ० आ । = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । सिंहकाः । अनेन कप्न्प्र०क उत्तरपदस्य लुक् च । 'आत्' ‘आतो नेन्द्र-वरुणस्य' (७।४।२९) इत्येव ज्ञापनादकृतसन्धिरेव । उत्तरपदस्य लुक् 'ते लुग्वा' (३।२।१०८) इति लुकि सिद्धे लुग्वचनमनुकम्पायां 'प्राग्नित्यात् कप्' (७।३।२८) इत्यनेन कपि व्याघ्रजिनक इति निवृत्त्यर्थं वचनम् |||| षड्वर्जेकस्वरपूर्वपदस्य स्वरे ॥ ७।३।४० ॥ [ षड्वर्जेकस्वरपूर्वपदस्य ] षड्वर्गं एकस्वरं पूर्वपदं यस्य तत् = षड्वर्जेकस्वरपूर्वपदम्, तस्य । [ स्वरे ] स्वर सप्तमी ङि । [ वाचियः, वाचिकः, वाचिलः ] वागाशीः वागाशीर्दत्तो वा प्रकृतिः । अनुकम्पितो वागाशीः वागाशीर्दत्तो वा = वाचियः, वाचिकः, वाचिल: । 'अजातेर्नृनाम्नो बहुस्वरादियेकेलं वा' (७।३।३५) इय- इक - इलप्र० । अनेन उत्तरपद आशिष् (स्) आशीदर्त्तस्य वा लुक् । [ त्वचियः, त्वचिकः, त्वचिलः ] अनुकम्पिता (तः) त्वग्दत्तः = त्वचियः, त्वचिकः, त्वचिलः । 'अजातेर्नृनाम्नो०' (७।३।३५) इय-इक-इलप्र० । अनेन उत्तरपदस्य लुक् । [ स्रुचियः, स्रुचिकः, स्रुचिलः] अनुकम्पिता (तः) स्रुग्दत्तः (७।३।३५) इय-इक - इलप्र० । अनेन उत्तरपदस्य लुक् । = [ उपडः, उपकः, उपियः, उपिकः, उपिलः ] उपेन्द्रेण दत्तः = उपेन्द्रदत्तः । अनुकम्पित उपेंद्रदत्तः = उपडः, उपकः, उपियः, उपिकः, उपिल: । 'वोपादेरडाकौ च' (७।३।३६) अड - अक - इय - इक - इलप्र० । 'द्वितीयात् स्वरादूर्ध्वम्' (७।३।४१) इन्द्रदत्तस्य लोपः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । Jain Education International स्रुचियः, स्रुचिकः, स्रुचिलः । 'अजातेर्नृनाम्नो०"" [ षडियः, षडिकः, षडिलः ] षडङ्गुलि प्रकृतिः । षड् अङ्गुलयो यस्य सः = षडङ्गुलिः । अनुकम्पितः षडङ्गुलिः = षडियः, षडिकः, षडिल: । 'अजातेर्नृनाम्नो० ' ( ७|३|३५) इय - इक - इलप्र० । 'द्वितीयात् स्वरादूर्ध्वम्' (७|३|४१) अङ्गुलिशब्दस्य लुक् । [ वागाशीष्कः] अनुकम्पिता वागाशीः (२।१।७२) र० । 'नामिनस्तयोः षः ' (२३८) २० [ वागाशीर्दत्तकः ] अनुकम्पितो वागाशीर्दत्तः क ॥छ। = वागाशीष्कः । ‘अनुकम्पा०' (७।३।३४) कप्प्र० क । सो रुः ' ष० । वागाशीर्दत्तकः । 'अनुकम्पा तद्युक्तनीत्यो:' ( ७।३।३४) कप्प्र० द्वितीयात् स्वरादूर्ध्वम् ॥ ७।३।४१ ॥ [द्वितीयात् ] द्वितीय पञ्चमी ङसि । [ स्वरात् ] स्वर पञ्चमी ङसि । [ ऊर्ध्वम् ] यदा ऊर्ध्वे देशे वर्त्तमानस्य तदा 'कालाध्व-भाव- देशं वाऽकर्म- चाऽकर्मणाम् ' (२।२।२३) इत्यम् । यदि वा ऊर्ध्वस्थितस्य तदा क्रियाविशेषणं शब्दरूपं लुग्भवति तदा प्रथमैकवचनम् । = [ देवियः, देविकः, देविलः ] अनुकम्पिने देवदत्तः देवियः, देविकः, देविलः । 'अजातेर्नृनाम्नो बहुस्वरादियेकेलं वा' (७।३।३५) इय- इक - इलप्र० । अनेन उत्तरपदस्य लुक् । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy