________________
सप्तमाध्यायस्य तृतीयः पादः ॥
तेनान्यैरिव-‘अज्ञाते कुत्सिते चैव, संज्ञायामनुकम्पने । तद्युक्तनीतावल्पेऽर्थे वाच्ये ह्रस्वे च कः स्मृतः ॥१॥
अनेकार्थं ग्रन्थे पूर्णकस्वर्णरूवके पूर्णका नासिका स्थित्याम् ।
[ व्याकरणकेन नाम त्वं गर्वितः ] कुत्सितो व्याकरणः = व्याकरणकस्तेन नाम त्वं गर्वितः । अनेन कप्प्र० → क ।
[ याज्ञिक्यकेन नाम त्वं विकत्थसे ] याज्ञिक । याज्ञिकानां धर्म आम्नाय : । 'छन्दोगौक्त्थिक- याज्ञिक - बह्वृचाच्च धर्मा - ऽऽम्नाय - सङ्घ' (६ | ३ | १६६ ) इत्यनेन व्यप्र० -> य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृद्धिः । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । कुत्सितो याज्ञिक्यः = याज्ञिक्यकम् । अनेन कप्प्र० → क, तेन = याज्ञिक्यकेन नाम त्वं विकत्थसे इत्यादौ अवक्षेपणमपि कुत्सितमेव । व्याकरणं कुत्सनं वैयाकरणस्तु कुत्सित इति व्याकरणात् कथं प्रत्यय इत्याह-न ह्यकुत्सितेनावक्षिप्यते ॥छ ||
अनुकम्पा - तद्युक्तनीत्योः ॥ ७|३|३४ ॥
[ अनुकम्पातद्युक्तनीत्योः ] अनुकम्पा च तद्युक्तनीतिश्च अनुकम्पातद्युक्तनीती, तयोः सप्तमी ओस् ।
अनुकम्पातद्युक्तनीत्योः ।
अनुकम्पा कारुण्येन परस्यानुग्रहः, तया अनुकम्पया युक्ता नीतिस्तद्युक्तनीति: । नीतिः सामादिप्रयोगः । तत्रानुकम्पायां सामोपप्रदाने एव न भेददण्डौ, तयोः = भेददण्डयोः अनुकम्पाया अप्रयोगात् ।
[ पुत्रकः] अनुकम्प्यः अनुकम्पितो वा पुत्रः पुत्रकः । अनेन कप्प्र० क । [ वत्सकः ] अनुकम्प्यो वत्सः = वत्सकः । अनेन कप्प्र० → क । [ बालकः ] अनुकम्प्यो बालः = बालकः । अनेन कप्प्र० → क । [बुभुक्षितकः] अनुकम्प्यो बुभुक्षितः = बुभुक्षितकः । अनेन कप्प्र० [ ज्वरितकः ] अनुकम्प्यो ज्वरितः = ज्वरितकः । अनेन कप्प्र०
क ।
=
[शनकैः] अनुकम्प्यः शनैः शनकैः । अनेन परं येन प्राप्यते तेन नीयते । 'अव्ययस्य को द् च' (७|३|३१) अक् । 'लोकात् ' (१|१|३ ) " ऐस् " विश्लेषियइ ।
Jain Education International
=
=
=
[ तूष्णीकाम्] अनुकम्प्यं तूष्णीम् = तूष्णीकाम् । अनेन 'तूष्णीकाम्' (७|३ | ३२) म् पूर्वं का निपात्यते ।
[ स्वपितकि] अनुकम्प्यं स्वपिति = स्वपितकि । अनेन 'त्यादि - सर्वादे: ०' (७|३|२९) इ प्राक् अक् । [ स्वपिषकि ] अनुकम्प्यं स्वपिषि स्वपिषकि । अनेन 'त्यादि - सर्वादे: ० ' ( ७|३|२९) इ प्राक् अक् । [ जल्पतकि] अनुकम्प्यं जल्पति = जल्पतकि । अनेन 'त्यादि - सर्वादे: ०' (७|३|२९) इ प्राक् अक् । [ एहकि] अनुकम्प्यं एहि = एहकि । अनेन 'त्यादि - सर्वादे: ० ' (७३।२९) इ प्राक् अक् ।
अनुकम्पमान एवं प्रयुङ्क्ते विहित इति सर्वत्र ज्ञेयः ।
[ एहकि] अनुकम्प्यं एहि = एहकि । अनेन कप्प्र० क ।
[ उत्सङ्गके उपविश ] अनुकम्प्य उत्सङ्गः उत्सङ्गकः, तस्मिन् । अनेन कप्प्र० → क । [ कर्दमकेनासि ] अनुकम्प्यः कर्दमः = कर्दमक:, तेन । अनेन कप्प्र० दिग्धकः] अनुकम्प्यो दिग्धः दिग्धकः । अनेन कप्प्र०क ।
क ।
=
=
क ।
For Personal & Private Use Only
१९९
=
www.jainelibrary.org