________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[ कण्टकस्ते लग्नकः ] अनुकम्प्यः कण्टकः = कण्टककः । अनेन कप्प्र० क । अनुकम्प्यो लग्नः = लग्नकः । अनेन कप्प्र ० क ।
२००
[ वत्सकः ] अनुकम्प्यो वत्सः = वत्सकः । अनेन कप्प्र० क ।
[ तूष्णीकां तिष्ठ ओदनं भोक्ष्यसे ] तूष्णीकां पूर्ववत् ।
[ हन्त ते गुडका हन्त ते धानका अद्धकि ] हन्त ते गुडेन मिश्रा धानाः = गुडा:, अनुकम्प्या गुडाः गुडका: । अनेन कप्प्र ० क - धानाशब्दलुक् । द्वितीये उदाहरणे 'ते लुग्वा' (३।२।१०८) गुडशब्दलुक् । अनेन अक् । 'इच्चाऽपुंसोऽनित्क्याप्परे' (२।४।१०७) इति नवा इत्-ह्रस्वौ । जस् । 'अदं भक्षणे' (१०५९) अद् । पञ्चमी हि । 'हु-धुटो हेधि:' ( ४।२।८३) हि०धि० । अनुकम्प्यमद्धि = अद्धकि | 'त्यादि-सर्वादेः स्वरे० ' ( ७।३।२९) इ पूर्वमक् ।
[ नक ] कुत्सितो न = नक। 'अव्ययस्य को द् च' (७|३|३१) अक् ।
[त्वकम् ] कुत्सितस्त्वं = त्वकम् । 'युष्मदस्मदोऽसोभादिस्यादेः' (७|३|३०) अम्पूर्वमक् ।
[ पुत्रकः ] कुत्सितः पुत्रः = पुत्रकः । 'कुत्सिता - ऽल्पा - ऽज्ञाते' (७।३।३३) कप्प्र ० क । आमन्त्र्ये सि । 'अदेत: स्यमोर्लुक्' (१।४।४४) सिलुक् ।
=
[ असकौ ] अदस् । कुत्सितोऽसौ असकौ । 'लोकात् ' (१|१|३) अस् अग्रे विश्लेषियइ । 'त्यादि - सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्' (७३।२९) अक् । 'आ द्वेरः' (२ ११४१) स०अ० । 'लुगस्यादेत्यपदे' (२|१|१११) अलुक् । 'अदसो दः सेस्तु डौ' (२।१।४३) दस्य सः - सि० डौ० औ० । 'डित्यन्त्यस्वरादेः' (२|१|११४) अलुक् ।
वृक्षकः । अनेन प्र०,
[ काकको वृक्षके] अनुकम्प्य काकः = काककः । अनेन कप्र० । अनुकम्प्यः वृक्षः तस्मिन् ।
[ उच्चकैः प्रणिलीयते ] कुत्सितमुच्चैरुच्चकैः । 'लोकात् ' (१|१|३) "ऐस्" अग्रे विश्लेषियइ । 'अव्ययस्य को द् च' (७|३|३१) अक् । 'लींच् श्लेषणे' (१२४८) ली, प्र- निपूर्व० । वर्त्तमाना ते । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । 'अक - खाद्यषान्ते पाठे वा' (२|३|८० ) णत्वम् ।
अनुकम्पायां प्रत्यासत्तेरनुकम्प्यमानादेव स्यात्, नान्यस्मात्, उत्सङ्गादेस्ततोऽपि यथा स्यादिति तद्युक्तनीतिग्रहणम् ॥छ अजातेर्नृनाम्नो बहुस्वरादियेकेलं वा ॥ ७।३।३५ ॥
क्तिप्र०
[ अजाते:] 'जनैचि प्रादुर्भावे ' (१२६५) जन् । जायतेऽभिधानप्रत्ययोऽस्यामिति जाति: । 'वादिभ्यः' (५/३/९२) ->> ति । 'आ: खनि - सनि जनः' (४/२/६०) न० आ० । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । न जातिरजातिस्तस्मात् ।
[ नृनाम्नः ] नुर्नाम = नृनाम, तस्मात् ।
[ बहुस्वरात् ] बहवः स्वरा यस्य सः = बहुस्वरस्तस्मात् ।
[ इयेकेलम् ] इयश्च इक्च इलश्च = इयेकेलम् ।
[वा ] वा प्रथमा सि ।
तद्युक्तनीताविति न वर्त्तते, अनुकम्प्यादेव प्रत्ययविधानात् । नृनाम्न इत्युक्ते नृनाम्नो हि अनुकम्पैव घटते, न तन्नीतिः ।
Jain Education International
=
For Personal & Private Use Only
www.jainelibrary.org