________________
१९८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[तूष्णीकामास्ते-तिष्ठति] कुत्सितमल्पमज्ञातं वा तूष्णीम् = तूष्णीकाम् । अनेन म्पूर्वं का नीयते । सि । 'अव्ययस्य' (३।२७) सिलुप् ॥छ।।
कुत्सिता-ऽल्पा-ऽज्ञाते ॥ ७।३।३३ ॥ [कुत्सिताऽल्पाऽज्ञाते] कुत्सितश्च अल्पश्च अज्ञातश्च = कुत्सिताऽल्पाऽज्ञातम् तस्मिन् ।
कुत्सितं निन्दितम् । अल्पं महत्प्रतियोगि-प्रतिपक्षमित्यर्थः । अज्ञातं प्रकृत्युपात्तधर्मव्यतिरेकेण केनचित् स्वत्वादिना धर्मेणानिश्चितम्, सर्वथा त्वज्ञाते प्रयोगाऽयोगात् ।
[अश्वकः] कुत्सितो-ऽल्पो-ऽज्ञातो वा अश्वः = अश्वकः । अनेन 'प्राग्नित्यात् कप्' (७।३।२८) कप्प्र० → क। [गर्दभकः] कुत्सितो-ऽल्पो-ऽज्ञातो वा गर्दभः = गर्दभकः । अनेन 'प्राग्नित्यात् कप्' (७३।२८) कप्प्र० → क।
[घृतकम् ] कुत्सितमल्पमज्ञातं वा घृतं = घृतकम् । अनेन 'प्राग्नित्यात् कप्' (७।३।२८) कप्प्र० → क । [ तैलकम् ] कुत्सितमल्पमज्ञातं वा तैलं = तैलकम् । अनेन 'प्राग्नित्यात् कप्' (७।३।२८) कप्प्र० → क।
[पचतकि] कुत्सितं पचति = पचतकि । 'लोकात्' (१।१।३) "इ"विश्लेषियइ । अनेन 'त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्' (७।३।२९) अक् ।
[भिन्द्धकि] कुत्सितं भिन्द्धि = भिन्द्धकि । 'लोकात्' (१।१।३) "इ"विश्लेषियइ । अनेन 'त्यादि-सर्वादे:०' (७३।२९) अक् ।
[सर्वके ] कुत्सिताः सर्वे = सर्वके । 'लोकात्' (१।१।३) "अ" अग्रे विश्लेषियइ । अनेन 'त्यादि-सर्वादेः स्वरे०' . (७।३।२९) अक् । जस् । 'जस इ:' (१।४।९) जस्० → इ० । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए।
[विश्वके] कुत्सिता विश्वे = विश्वके । 'लोकात्' (१।१३) "अ"अग्रे विश्लेषियइ । अनेन 'त्यादि-सर्वादेः०' (७।३।२९) अक् । जस् । 'जस इ:' (१।४।९) जस्० → इ० । 'अवर्णस्ये०' (१।२।६) ए।
[उच्चकैः ] कुत्सितमुच्चेरुच्चकैः । अव्ययविशेषणं नपुंसकम् । 'लोकात्' (१।१।३) "ऐस्"विश्लेषियइ । अनेन 'अव्ययस्य को द् च' (७।३।३१) अक् । सि । 'अव्ययस्य' (३।२।७) सिलुप् ।।
[नीचकैः] कुत्सितं नीचैः = नीचकैः । 'लोकात्' (१।१।३) "ऐस्"विश्लेषियइ । अनेन 'अव्ययस्य को द् च' (७।३।३१) अक् । 'सि । 'अव्ययस्य' (३।२।७) सिलुप् ।
[तूष्णीकाम् ] कुत्सितमल्पमज्ञातं वा तूष्णीम् = तूष्णीकाम् । अनेन 'तूष्णीकाम् (७।३।३२) म्पूर्व का । [कुत्सितकः] कुत्सितः = कुत्सितकः । अनेन कप्र० । [अल्पकः] अल्पः = अल्पकः । अनेन कप्र० । [अज्ञातकः] अज्ञातः = अज्ञातकः । अनेन कप्र० । [राधकः ] कुत्सितो राधः = राधकः । अनेन कप्प्र० → क। [ पूर्णकः ] कुत्सितः पूर्णः = पूर्णकः । अनेन कप्प्र० → क । [शूद्रकः] कुत्सितः शूद्रः = शूद्रकः । अनेन कप्प्र० → क।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org