SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १९६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [इमकेन] इदम् । कुत्सितेन अल्पेन अज्ञातेन वा अनेन = इमकेन । 'लोकात्' (१।१३) "अम्"विश्लेषियइ । 'त्यादि-सर्वादेः०' (७।३।२९) अक् । 'दो मः स्यादौ' (२।१।३९) द० → म० । 'आ द्वेरः' (२।१।४१) म० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । तृतीया टा | 'टा-ङसोरिन-स्यौ' (१।४।५) इन । 'अवर्णस्येव०' . (१।२।६) ए। [अमुकेन] अदस् । कुत्सितेन अल्पेन अज्ञातेन वा अमुना = अमुकेन । 'लोकात' (१९१३) "अस"विश्ले 'त्यादि-सर्वादे:०' (७३।२९) अक् । 'आ द्वेरः' (२०४१) स० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'मोऽवर्णस्य' (२।१४५) द० → म० । 'मादुवर्णोऽनु' (२।१।४७) उ। तृतीया टा । 'टा-ङसोरिन-स्यौ' (१।४।५) इन । 'अवर्णस्येव०' (१।२।६) ए। [इमकैः] इदम् । कुत्सितैः अल्पैः अज्ञातैर्वा एभिः = इमकैः । तृतीया भिस् । 'लोकात्' (१।१।३) "अम्"विश्लेषियइ । 'त्यादि-सर्वादेः०' (७३।२९) अक् । 'दो मः स्यादौ' (२।१।३९) द० → म० । 'आ द्वेरः' . (२।१।४१) म० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'इदमदसोऽक्येव' (१।४।३) ऐस् । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२) ऐ। [अमुकैः] अदस् । कुत्सितैरल्पैरज्ञातैर्वा अमीभिः = अमुकैः । तृतीया भिस् । 'लोकात्' (१।१।३) "अस्"विश्लेषियइ । 'त्यादि-सर्वादेः स्वरेष्व०' (७।३।२९) अक् । 'आ द्वेरः' (२।१।४१) स० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'मोऽवर्णस्य' (२।१।४५) द० → म० । 'मादुवर्णोऽनु' (२।१।४७) उ । ' 'इदमदसोऽक्येव' (१।४।३) ऐस् । ‘ऐदौत् सन्ध्यक्षरैः' (१।२।१२) ऐ। [भवकन्तौ] कुत्सितौ भवन्तौ = भवकन्तौ । 'लोकात्' (१।१।३) "अत्"विश्लेषियइ । 'त्यादि-सर्वादे:०' (७।३।२९) अक् । औ । 'ऋदुदितः' (१।४/७०) नोऽन्तः । । [भवकन्तः] कुत्सिता भवन्ताः = भवकन्तः । 'लोकात्' (१।१।३) "अत्"विश्लेषियइ । 'त्यादि-सर्वादे:०' (७।३।२९) अक् । जस् । 'ऋदुदितः' (१।४।७०) नोऽन्तः । [भवतका] कुत्सितेन भवता = भवतका । तृतीया टा । मतान्तरे अनेन अक् । [भवतके ] कुत्सिताय भवते = भवतके । चतुर्थी उ । मतान्तरे अनेन अक् । [भवतकः] कुत्सितात् भवतः = भवतकः । पञ्चमी ङसि । मतान्तरे अनेन अक । [भवतकि] कुत्सिते भवति = भवतकि । सप्तमी ङि । मतान्तरे अनेन अक् । [युष्मकासु] कुत्सितेषु युष्मासु = युष्मकासु । 'लोकात्' (१।१।३) "अद्"विश्लेषियइ । 'त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्' (७।३।२९) अक् । सप्तमी सुप् । 'युष्मदस्मदोः' (२।१६) द० → आ० । [अस्मकासु] कुत्सितेषु अस्मासु = अस्मकासु । 'लोकात्' (१।१३) "अद"विश्लेषियइ । 'त्यादि-सर्वादेः०' (७।३।२९) अक् । सप्तमी सुप् । 'युष्मदस्मदोः' (२।१६) द० → आ० । [युवकयोः] कुत्सितयोः युवयोः = युवकयोः । 'लोकात्' (१।१३) "अद्"विश्लेषियइ । 'त्यादि-सर्वादेः०' (७।३।२९) अक् । ओस् । 'मन्तस्य युवाऽऽवौ द्वयोः' (२०१०) युव० । 'टा-ङ्योसि यः' (२।१७) द० → य० । [आवकयोः] कुत्सितयोरावयोः = आवकयोः । 'लोकात्' (१।१।३) "अद्"विश्लेषियइ । 'त्यादि-सर्वादे:०' (७।३।२९) अक् । ओस् । 'मन्तस्य युवाऽऽवौ द्वयोः' (२।१।१०) आव० । 'टा-ङ्योसि यः' (२।१७) द० → य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy