SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ युष्मदस्मदोऽसोभादिस्यादेः ॥ ७।३।३० ॥ [ युष्मदस्मदः ] युष्मच्च अस्मच्च = युष्मदस्मद्, तस्य । [ असोभादिस्यादेः ] स् च ओ च भश्च = सोभा (:) । सोभा आदिर्यस्यासौ सोभादिः । न सोभादिरसोभादिः । असोभादिश्चासौ स्यादिश्च = असोभादिस्यादिस्तस्य । 'ङित्यदिति' (१।४।२३) ए । 'एदोद्भ्यां ङसि - ङसो र ' (१।४।३५) ङस्०र० । युष्मदस्मदोः स्वरेष्वन्त्यात् पूर्वस्यापवादः । [ त्वयका ] कुत्सितेन त्वया = त्वयका । 'त्व - मौ प्रत्ययोत्तरपदे चैकस्मिन् ' (२|१|११) युष्मस्थाने "त्व" देश: । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'टा- योसि य:' (२।१।७) दस्य "य" देशः । अनेन स्यादिपूर्वं अक् । [ मयका ] कुत्सितेन मया = मयका । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् ' (२|१|११ ) अस्मस्थाने "म" देशः । 'लुगस्यादेत्यपदे' (२|१|११३) अलोप: । 'टा - ज्योसि य: ' (२1१1७) दस्य "य" देशः । अनेन स्यादिपूर्वं अक् । [ त्वयकि] कुत्सिते त्वयि त्वयकि । = [ मयकि] कुत्सिते मयि मयकि । [ युष्माकम् ] कुत्सितानां युष्माकं = युष्माककम् । षष्ठी आम् ।' लोकात् ' (१।११३) "अद्" विश्लेषियइ । 'आम आकम्' (२।१।२०) “आकम्" देशः । 'शेषे लुक्' (२१८) दलुक् । अनेन अक्प्र० । १९५ = [ अस्माकम् ] कुत्सितानां अस्माकम् = अस्माककम् । षष्ठी आम् । 'लोकात्' (१|१|३) "अद्" विश्लेषियइ । 'आम अकम्' (२|१|२० ) " आकम्" देश: । 'शेषे लुक्' (२१८) दलुक् । अनेन अक्प्र० । [ परमत्वयका ] परमश्चासौ त्वं च = परमत्वम्, तेन परमत्वया । कुत्सितेन परमत्वया = परमत्वयका । तृतीया टा । 'त्व-मौ प्रत्ययोत्तरपदे० ' (२।१।११) "त्व" देश: । 'टा- योसि य: ' (२१७) द० य० । अनेन अप्र० । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः । = [परममयका ] परमश्चासौ अहं च = परमाहम्, तेन = परममया । कुत्सितेन परममया = परममयका । तृतीया टा । 'त्व-मौ प्रत्ययोत्तरपदे० ' (२|१|११) "म" देश: । 'टा - ङ्योसि यः ' (२।१।७) द० य० । अनेन अक्प्र० । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः । [ तकया ] कुत्सितया अल्पया अज्ञातया वा तया = तकया । तृतीया टा । 'लोकात् ' (११११३) "अद्" विश्लेषियइ । 'त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक्' (७।३।२९) अक्प्र० । 'आ द्वेरः' (२|१|४१) द० अ० । 'आत्' (२|४|१८) आप्प्र ० आ । 'टौस्येत्' (१।४।१९) ए । 'एदैतोऽयाय्' (१।१।२३) अय् । [याकया ] कुत्सितया अल्पया अज्ञातया वा यया = यकया। तृतीया टा। 'लोकात् ' (१।१।३) "अद्" विश्लेषियइ । 'त्यादि-सर्वादेः०' (७।३।२९) अक्प्र० । 'आ द्वेरः' (२|१|४१) द० अ० । 'आत्' (२|४|१८) आप्प्र० → आ । 'टौस्येत्' (१।४।१९) ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । Jain Education International [ सर्वकेण ] कुत्सितः सर्वः = सर्वकस्तेन सर्वकेण । 'लोकात् ' (१|१|३) "अ" विश्लेषियइ । 'त्यादि - सर्वादेः ० ' ( ७।३।२९) अक्प्र० । [विश्वकेन ] कुत्सितेन विश्वेन विश्वकेन । ‘लोकात्’ (१।१।३) "अ" विश्लेषियइ । 'त्यादि सर्वादे: ०' (७।३।२९) अक्प्र० । = For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy