SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ १९३ ~~~~~ [कश्च] क प्रथमा सि । च प्रथमा सि । मीयते येन तन्मानम्, तस्मिन् । [षष्ठकः, षाष्ठो भागः मानं चेत् ] षष्ठ एव = षष्ठकः, षाष्ठो भागः । अनेन क-अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [षाष्ठो भागोऽन्यः] षष्ठ एव = षाष्ठः । 'षष्ठात्' (७३।२५) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। एकादाकिन् चासहाये ॥ ७।३।२७ ॥ [एकात् ] एक पञ्चमी ङसि । [आकिन्] आकिन् प्रथमा सि । [च] च प्रथमा सि । [असहाये] न सहायः = असहायस्तस्मिन् । [एकाकी, एककः] एक एव = एकाकी, एककः । अनेन आकिन्प्र०-कप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घयाब्' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ॥छ।। प्राग्नित्यात् कप् ॥ ७।३।२८ ॥ [प्राक् ] प्राक् प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [नित्यात् ] नित्य पञ्चमी ङसि । [कप्] कप् प्रथमा सि । 'नित्यं ब-बिनोऽण' (७३।५८) इत्यधिकारो वेदितव्यो ज्ञेयः । [अश्वकः] कुत्सितो-ऽल्पो-ऽज्ञातो वा अश्वः = अश्वकः । अनेन कप्प्र० → क। पकारः पुंवद्भावार्थः। [दारदिका] दरद् । दरदां राज्ञी । 'पुरु-मगध-कलिङ्ग०' (६।१।११६) अण्प्र० → अ । 'दूरबणोऽप्राच्य-भर्गादेः' (६।१।१२३) अणलुप्, ततः कुत्सिता दरद् = दारदिका । अनेन कप्प्र० → क । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) इत्यनेन अण्लोपनिवृत्तिरूपे पुंवद्भावे 'आत्' (२।४।१८) इत्याप् । 'अस्याऽयत्-तत्-०' (२।४।१११) इत्यादिना इत्वम् । यदा त्वपत्ये. अण् तदा गोत्रं च चरणैः सहेति जातित्वे 'स्वाङ्गान्डीर्जातिश्चाऽमानिनि' (३६२५६) पुंवन्निषेध: स्यात् । प्राग नित्यादित्यवध्यर्थम् । अन्यथा अपवादबाधितो नोत्तरत्रानुवर्तेत, परतोऽपि अनुवर्तेत ॥छ।। त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक् ॥ ७।३।२९ ॥ [त्यादिसर्वादेः] त्यादिश्च सर्वादिश्च = त्यादिसर्वादि, तस्य । [स्वरेषु] स्वर सप्तमी सुप् । [अन्त्यात्] अन्ते भवोऽन्त्यः, तस्मात् । [पूर्वः] पूर्व प्रथमा सि । [अक्] अक् प्रथमा सि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy