________________
१९२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
.
स्नाताद् वेदसमाप्तौ ॥ ७।३।२२ ॥ [स्नातात् ] स्नात पञ्चमी ङसि । [ वेदसमाप्तौ] वेदस्य समाप्तिः = वेदसमाप्तिस्तस्याम् । [स्नातकः] वेदं समाप्य स्नातः = स्नातकः । अनेन कप्र० ॥छ।।
तनु-पुत्रा-ऽणु-बृहती-शून्यात् सूत्र-कृत्रिम-निपुणा-ऽऽच्छादन-रिक्ते ॥ ७।३।२३ ॥ [तनुपुत्राऽणुबृहतीशून्यात् ] तनुश्च पुत्रश्च अणुश्च बृहती च शून्यं च = तनुपुत्राऽणुबृहतीशून्यम्, तस्मात् ।
[सूत्रकृत्रिमनिपुणाऽऽच्छादनरिक्ते] सूत्रं च कृत्रिमश्च निपुणश्च आच्छादनं च रिक्तश्च = सूत्रकृत्रिमनिपुणाऽऽच्छादनरिक्तम्, तस्मिन् ।
[ तनुकं भङ्गादिमयं कल्पादि च] तनोः सूत्रे । तनु सूत्रं = तनुकम् । अनेन कप्र० । भङ्गादिमयं कल्पादि च । [पुत्रकः] पुत्रात् कृत्रिमे । कृत्रिमस्तक्षादिव्यापारनिष्पादितः । कृत्रिमः पुत्रः = पुत्रकः । अनेन कप्र० ।
[औरसः पुत्रः] उरस् । उरसा कृतः = औरसः । 'उरसो या-ऽणौ' (६।३।१९६) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः औ।।
[अणुकः] अणोनिपुणे । निपुणो निष्णातोऽणुः = अणुकः । अनेन कप्र० ।
[बृहतिका आच्छादनविशेषः] बृहत्या आच्छादने । आच्छादनविशेषो बृहती = बृहतिका । अनेन कप्र० । 'ङ्यादीदूतः के' (२।४।१०४) हुस्वः । बृहती शब्देन रिंगणी उच्यते ।
[शून्यकः रिक्तश्चेत् ] शून्याद्रिक्ते । रिक्तो धनप्रज्ञादिना । शून्य एव = शून्यकः । अनेन कप्र० । [शून्यम् ] श्वन् मांडणीयइ । शुने हितं = शून्यम् । 'शुनो वश्चोदूत्' (७।१।३३) यप्र०-व० → ऊकारश्च ॥छ।।
भागेऽष्टमाञः ॥७३॥२४॥ [भागे] भाग सप्तमी ङि। [अष्टमात्] अष्टम पञ्चमी ङसि । [ञः] प्रथमा सि ।
[आष्टमो भागः] अष्टम एव = आष्टमो भागः । अनेन उप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[अष्टमो जिनः चन्द्रप्रभः] अष्टन् मण्ड्यते । अष्टानां पूरणः = अष्टमो जिनश्चन्द्रप्रभः । 'नो मट्' (७।१।१५९) मट्प्र० → म । 'नोऽपदस्य तद्धिते' (७।४।६१) नलुक् ॥छ।।
षष्ठात् ॥ ७।३।२५ ॥ [षष्ठात् ] षष्ठ पञ्चमी ङसि ।
[षाष्ठो भागः] षष्ठ एव = षाष्ठो भागः । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।
माने कश्च ॥ ७।३।२६ ॥ [माने] मान सप्तमी ङि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org