________________
सप्तमाध्यायस्य तृतीयः पादः ॥
लिङ्गविशिष्टस्यापि ग्रहणात् -
[लोहिनिका शाटी] लोहित । 'श्येतैत-हरित-भरत०' (२।४।३६) ङी-त० → न० देशश्च । 'अस्य ङ्यां लुक्' (२।४।८६) अलोपः । लोहिन्येव = लोहिनिका शाटी । अनेन कप्र० । 'ङ्यादीदूतः के' (२।४।१०४) हुस्वः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[लोहितिका पटी] लोहिता । लोहितैव = लोहितिका । अनेन कप्र० । 'इच्चापुंसोऽनित्क्याप्परे' (२।४।१०७) आ० → इ० । 'आत्' (२।४।१८) आप्प्र० → आ ।
अनित्यवर्णे - [लोहितकमक्ष्णो रूपं कोपेन ] लोहितमेव = लोहितकम् । अनेन कप्र० । अक्ष्णो रूपं कोपेन ।
[लोहिनिका, लोहितिका कन्या कोपेन] लोहिन्येव = लोहिनिका । अनेन कप्र० । 'ङ्यादीदूतः के (२२४१०४) हुस्वः । 'आत्' (२।४।१८) आप्प्र० → आ । लोहितैव = लोहितिका । अनेन कप्र० । 'इच्चाऽपुंसोऽनित्क्याप्परे' (२।४।१०७) आ० → इ० । 'आत्' (२।४।१८) आप्प्र० → आ ।
वाऽधिकारान्न भवति । अग्रेतने उदाहरणे वाक्यो ज्ञेयः । नित्योऽपि रक्तो वर्णोऽस्ति । यथा-कृमिरागादि रक्ते(:) पट इति रक्तग्रहणम् । रक्तेऽनित्येऽपि भवतीत्यर्थः । सत्येवाश्रयद्रव्येऽपयन्निहानित्य उच्यते । वर्णग्रहणं द्रव्यनिवृत्त्यर्थम् । असति वर्णग्रहणे स्त्रीणामार्त्तवे द्रव्ये स्यात् । ऋतो(तौ) भवम् = आर्तवं रुधिरम् । तद्धि सत्यं(त्ये)वाश्रये स्त्रियां कदाचिन्न भवति लोहितशब्दवाच्यं च ॥छ।
कालात् ॥ ७।३।१९ ॥ [कालात्] काल पञ्चमी ङसि । [कालकः पटः ] काल एव = कालकः पटः । अनेन कप्र० । अनित्यवर्णे - [कालकं मुखं वैलक्ष्येण ] कालमेव = कालकं मुखं । अनेन कप्र० । वैलक्ष्येण । वाधिकारान्न भवत्यपि ॥छ।।
शीतोष्णादृतौ ॥ ७।३।२० ॥ [शीतोष्णात् ] शीतश्च उष्णश्च = शीतोष्णम्, तस्मात् । [ऋतौ] ऋतु सप्तमी ङि। [शीतक ऋतुः] शीत एव = शीतक ऋतुः । अनेन कप्र० । [उष्णक ऋतुः] उष्ण एव = उष्णक ऋतुः । अनेन कप्र० ॥छ।।
लून-वियातात् पशौ ॥ ७।३।२१ ॥ [लूनवियातात्] लूनश्च वियातश्च = लूनवियातम्, तस्मात् । [ पशौ] पशु सप्तमी ङि। [लूनकः] लून एव = लूनकः । अनेन कप्र० । [वियातकः पशुः] वियात एव = वियातकः । अनेन कप्र० । पशुः ।
[विहानकः पशुः] विगतं हान-गमनमस्य = विहानः । विहान एव = विहानकः पशुः, क्षीणरेता इत्यर्थः । अनेन कप्र० ॥छ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org