SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १८८ [न] न प्रथमा सि । [तमबादिः ] तमप् आदिर्यस्य सः = तमबादि: । 'धुटस्तृतीयः' (२२१७६) प०→ ब० । [ कप: ] कप् पञ्चमी ङसि । [ अच्छिन्नादिभ्यः ] छिन्न आदिर्येषां ते = छिन्नादयः । न छिन्नादयः = अच्छिन्नादयः, तेभ्यः अच्छिन्नादिभ्यः । पञ्चमी भ्यस् । [पटुकः] अयमेषां प्रकृष्टः - कुत्सितो - ऽल्पो ऽज्ञातो वा पटुकः । 'कुत्सिता - ऽल्पा - ऽज्ञाते' (७।३।३३) कप्प्र० →क । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । न तमबादिः कपोऽच्छिन्नादिभ्यः ॥ ७।३।१३ ॥ [ पटुकः ] अयमनयोर्मध्ये प्रकृष्टः पटुकः । [ पटुतमकः ] प्रकृष्टः पटुः = पटुतमः । ‘प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम । अयमेषामतिशयेन कुत्सितः पटुतम: = पटुतमकः । 'कुत्सिता - ऽल्पा - ऽज्ञाते' (७।३।३३) कप्प्र० → क । [ पटुतरकः] अयमनयोर्मध्येऽतिशयेन पटुः = पटुतरः । 'द्वयोर्विभज्ये च तरप्' (७|३|६) तरप्प्र० तर । कुत्सितः पटुतरः पटुतरक: । 'कुत्सिता - ऽल्पा०' (७।३।३३) कप्प्र० क । = [ पटुरूपकः] प्रशस्तः पटुः = पटुरूपः | 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपपप्र० रूप । कुत्सितः पटुरूपः = पटुरूपकः । कुत्सिता - ऽल्पा - ऽज्ञाते' (७|३|३३) कप्प्र० क । अयमेषां अयमनयोर्वा मध्ये प्रकृष्टः पटुः = पटुरूपकः । न कश्चित् प्रत्ययः सर्वत्र । = = [ पटुकल्पकः, पटुदेश्यकः, पटुदेशीयकः ] ईषदसमाप्तः पटुः = पटुकल्पः, पटुदेश्यः, पटुदेशीयः । ‘अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर्' (७३।११) कल्पप्-देश्यप् - देशीयप्र० कल्प-देश्य-देशीय । कुत्सितो -ऽल्पो ऽज्ञातो वा पटुकल्पः पटुदेश्यः पटुदेशीयो वा = पटुकल्पकः, पटुदेश्यकः, पटुदेशीयकः । 'कुत्सिताऽल्पा-ऽज्ञाते' (७।३।३३) कप्प्र० क । अयमेषां अयमनयोर्वा मध्ये प्रकृष्टः पटुः पटुकल्पकः, पटुदेशीयकः । न कश्चित् प्रत्ययः । = [ कुटीरतमः ] ह्रस्वा कुटी कुटीर: । 'कुटी - शुण्डाद् र:' ( ७|३|४७) रप्र० । अयमेषां मध्ये प्रकृष्टः कुटीर: कुटीरतम: । 'प्रकृष्टे तमप्' (७|३|५) तमप्प्र० तम । Jain Education International →>> [ लोहितकतमो मणि: ] लोहित एव = लोहितकः । ‘लोहितान्मणौ' ( ७।३।१७) कप्र० । प्रकृष्टो लोहितकः लोहितकतमो मणिः । प्रकृष्टे तमप् (७|३|५) तमप्प्र० तम । = [ लोहितकतममक्षि कोपेन ] लोहितमेव लोहितकम् । 'रक्ता - ऽनित्यवर्णयोः' (७|३|१८) कप्र० । प्रकृष्टं लोहितकं लोहितकतममक्षि कोपेन । 'प्रकृष्टे तमप्' (७|३|५) तमप्प्र० तम । सि-अम् । [ छिन्नकतमः: ] कुत्सितो - ऽल्पो ऽज्ञातो वा छिन्नः = छिन्नकः । कुत्सिता - ऽल्पा - ऽज्ञाते (७।३।३३) कप्प्र० क । अयमेषामतिशयेन छिन्नकः = छिन्नकतमः । 'प्रकृष्टे तमप्' (७३५) तमप्प्र० तम । [ छिन्नकतरः] द्वयोर्मध्ये प्रकृष्टः छिन्नकः = छिन्नकतरः । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० → तर । For Personal & Private Use Only = www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy