________________
सप्तमाध्यायस्य तृतीयः पादः ॥
१८७
[पटुदेश्यरूपः] ईषदपरिसमाप्तः पटुः = पटुदेश्यः । अनेन देश्यप्प्र० → देश्य । प्रशस्तः पटुदेश्यः = पटुदेश्यरूपः । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प्र० → रूप ।
पकारौ पुंवद्भावार्थो ।
[दर्शनीयकल्पा] दर्शनीया मण्ड्यते । ईषदपरिसमाप्ता दर्शनीया = दर्शनीयकल्पा । अनेन कल्पपप्र० → कल्प । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवद्भावः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[दर्शनीयदेश्या] दर्शनीया मण्ड्यते । ईषदपरिसमाप्ता दर्शनीया = दर्शनीयदेश्या । अनेन देश्यप्प्र० → देश्य । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवद्भावः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[स्त्रौनदेशीया, पञ्चमदेशीया] स्रुघ्नो देवता अस्या सा = स्रौघ्नी । 'देवता' (६।२।१०१) अणप्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण' (२।४।२०) ङी । अत्रापि पुंवदर्थः पकारः क्रियताम् । किं करणेन ? सत्यम्, 'तद्धिताऽककोपान्त्य-पूरण्याख्याः' (३।२।५४) इति पूरणीप्रत्ययान्तत्वात् पञ्चमदेशीयेत्यत्र पुंवद्भावस्य निषेधः प्राप्नोति स मा भूदिति करणम् । पञ्चन् । पञ्चानां पूरणी = पञ्चमी । 'नो मट्' (७।१।१५९) मटप्र० → म । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक् । 'नाम्नो नोऽनह्नः' (२।१२९१) नलुक् । ईषदसमाप्ता स्रौनी = स्रौघ्नदेशीया । ईषदसमाप्ता पञ्चमी = पञ्चमीदेशीया । अनेन देशीयप्र० → देशीय । अनयोः 'तद्धितः स्वरवृद्धिहेतुररक्त-विकारे' (३।२।५५) -'तद्धिताऽककोपान्त्य-पूरण्यारव्याः' (३।२।५४) इत्याभ्यां निषिद्धोऽपि 'रिति' (३।२।५८) इत्यनेन पुंवद्भावः । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।।
नाम्नः प्राग्बहुर्वा ॥ ७।३।१२ ॥ [नाम्नः ] नामन् पञ्चमी ङसि । 'अनोऽस्य' (२।१।१०८) अलुक् । [प्राग्] प्राग् प्रथमा सि । [बहुः] बहु प्रथमा सि । [वा] वा प्रथमा सि ।
पञ्चम्यर्थद्वितीयमानत्वात् अस्य बहोः प्रत्ययत्वात् 'परः' (७।४।११८) इति तु परिभाषा अत्र प्राग्ग्रहणेन बाध्यते । एवं सर्वादिरित्यत्रापि ।
[बहुपटुः] ईषदसमाप्तः पटुः = बहुपटुः । अनेन पूर्वं बहुप्रत्ययः । [ बहुमृदुः] ईषदसमाप्तो मृदुः = बहुमृदुः । अनेन बहुप्र० । [ बहुभुक्तम् ] ईषदसमाप्तं भुक्तं = बहुभुक्तम् । अनेन बहुप्र० । [ बहुपीतम् ] ईषदसमाप्तं पीतं = बहुपीतम् । अनेन बहुप्र० । [बहुगुडो द्राक्षा] ईषदसमाप्तः गुडः = बहुगुडो द्राक्षा । अनेन पूर्वं बहुप्र० । [ बहुतैलं प्रसन्ना ] ईषदसमाप्तं तैलं = बहुतैलं प्रसन्ना-वारुणी सुरा । अनेन पूर्वं बहुप्र० । [बहुपयो यवागूः] ईषदसमाप्तं पयः = बहुपयो यवागूः । अनेन पूर्वं बहुप्र० । [ बहुचन्द्रो मुखम् ] ईषदसमाप्तश्चन्द्रः = बहुचन्द्रो मुखम् । अनेन पूर्वं बहुप्र० । नामग्रहणं त्याद्यन्तनिवृत्त्यर्थम् ॥छ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org