SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [वाचिकम् ] वाच । सन्दिष्टा वाक् = वाचिकम् । 'वाच इकण्' (७।२।१६८) इकण्प्र० → इक । केचित्तु नातिवर्तन्ते-न त्यजन्तीत्यर्थ: [यावकः] 'युक् मिश्रणे' (१०८०) यु । यवनं = यवः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० → अ । 'नामिनो गुणोऽक्ङि ति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । यवानां विकारः = यावः । . "विकारे' (६।२।३०) अणप्र० - अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । याव एव = यावकः । 'यावादिभ्यः कः' (७।३।१५) कप्र० । [मणिकः] मणिरेव = मणिकः । 'यावादिभ्यः कः' (७।३।१५) कप्र० । [बृहतिका] बृहती । बृहत्येव = बृहतिका । 'तनु-पुत्रा-ऽणु-बृहती-शून्यात् सूत्र-कृत्रिम-निपुणा-ऽऽच्छादन-रिक्ते'. (७३।२३) कप्र० । 'झ्यादीदूतः के (२।४।१०४) हुस्वः । 'आत्' (२।४।१८) आप्प्र० → आ । [ मृत्तिका ] मृदेव = मृत्तिका । 'मृदस्तिकः' (७।२।१७१) तिकप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [कासूतरी] हुस्वा कासू = कासूतरी । 'कासू-गोणीभ्यां तरट्' (७।३।५०) तरट्प्र० → तर । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । [गोणीतरी] हुस्वा गोणी = गोणीतरी । 'कासू-गोणीभ्यां तरट्' (७।३।५०) तरट्प्र० → तर । 'अणंजेयेकण्०' . . (२।४।२०) डी । 'अस्य यां लुक्' (२।४।८६) अलुक् । _ [व्यावक्रोशी] वि-अव 'क्रुशं आह्वान-रोदनयोः' (९८६) क्रुश् । व्यवक्रोशनं = · व्यवक्रोशः । 'व्यतिहारेऽनीहादिभ्यो ञः' (५।३।११६) अप्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । व्यवक्रोश एव = व्यावक्रोशी । 'नित्यं ज-जिनोऽण्' (७।३।५८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण्' (२।४।२०) ङी। [व्यावहासी] वि-अव 'हसे हसने' (५४५) हस् । व्यवहसनं = व्यवहासः । 'व्यतिहारेऽनीहादिभ्यो ः' (५।३।११६) अप्र० → अ । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । व्यवहास एव = व्यावहासी । 'नित्यं त्र-जिनोऽण' (७।३।५८) अण्प्र० → अ । 'वृद्धिः स्वरे' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण' (२।४।२०) ङी। [पटुकल्पतमः] ईषदपरिसमाप्तः पटुः = पटुकल्प: । अनेन कल्पप्प्र० → कल्प । प्रकृष्टः पटुकल्पः = पटुकल्पतमः । 'प्रकृष्टे तमप्' (७३।५) तमप्प्र० → तम । [पटुकल्पतरः] ईषदपरिसमाप्तः पटुः = पटुकल्प: । अनेन कल्पप्प्र० → कल्प । द्वयोर्मध्ये प्रकृष्टः पटुकल्प: = पटुकल्पतरः । 'द्वयोविभज्ये च तरप्' (७।३।६) तरप्प्र० → तर । [पटुदेश्यतमः] ईषदपरिसमाप्तः पटुः = पटुदेश्यः । अनेन देश्यप्प्र० → देश्य । प्रकृष्टः पटुदेश्य: = पटुदेश्यतमः । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० → तम । [पटुदेश्यतरः] ईषदपरिसमाप्तः पटुः = पटुदेश्यः । अनेन देश्यप्प्र० → देश्य । द्वयोर्मध्ये प्रकृष्टः पटुदेश्यः = पदेश्यतरः । 'द्वयोविभज्ये च तरप्' (७।३।६) तरप्प्र० → तर । [पटुकल्परूपः] ईषदपरिसमाप्तः पटुः = पटुकल्पः । अनेन कल्पप्प्र० → कल्प । प्रशस्तः पटुकल्पः = पटुकल्परूपः । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प्र० → रूप । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy