________________
१८४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
त्यादेश्च प्रशस्ते रूपप् ॥ ७।३।१० ॥ [त्यादेश्च ] तिरादिर्यस्य सः = त्यादिः, तस्मात् । च प्रथमा सि । [प्रशस्ते] प्रशस्त सप्तमी ङि । [रूपप्] रूपप् प्रथमा सि । [पचतिरूपम् ] प्रशस्तं पचति = पचतिरूपम् । अनेन रूपप्प्र० → रूप । [पचतोरूपम्] प्रशस्तं पचतः = पचतोरूपम् । अनेन रूपप्प्र० → रूप ।
त्याद्यन्तानां क्रियाप्रधानत्वात्तस्याश्च साध्यत्वेन लिङ्गसंख्याभ्यामयोगात् रूपबन्तस्यौत्सर्गिकमेकवचनं नपुंसकलिङ्गं च भवति ।
[वैयाकरणरूपः ] प्रशस्तो वैयाकरणः = वैयाकरणरूपः । अनेन रूपप्प्र० → रूप। । [पण्डितरूपः] प्रशस्तः पण्डितः = पण्डितरूपः । अनेन रूपपप्र० → रूप ।
[वृषलरूपोऽयमपि पलाण्डुना सुरां पिबेत्] प्रशस्तो वृषलः = वृषलरूपः । अनेन रूपप्प्र० → रूप ! अयमपि पलाण्डुना सुरां पिबेत् । 'सम्भावनेऽलमर्थे तदर्थानुक्तौ' (५।४।२२) इत्यादिना सप्तमी ।
[दस्युरूपोऽयमप्यक्ष्णोरञ्जनं हरेत् ] पशस्तो दस्युः = दस्युरूपः । अनेन रूपप्प्र० → रूप । अयमप्यक्ष्णोरञ्जनं
हरेत् ।
[पटुतमरूपः ] प्रशस्तः पटुतमः = पटुतमरूप: । अनेन रूपप्प्र० → रूप । [पटुतररूपः] प्रशस्तः पटुतरः = पटुतररूपः । अनेन रूपप्प्र० → रूप ।
[शोभनरूपाः ] शोभन 'आत्' (२।४।१८) आप्प्र० → आ । प्रशस्ताः शोभनाः = शोभनरूपाः । अनेन रूपप्र० → रूप । जस् । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवद्भावः ।
[दर्शनीयरूपा] दर्शनीय 'आत्' (२।४।१८) आप्प्र० → आ । प्रशस्ता दर्शनीया = दर्शनीयरूपा । अनेन रूपप्प्र० → रूप । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवद्भावः ॥छ।।
अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर् ॥ ७।३।११ ॥ [अतमबादेः ] तमप् आदिर्यस्य सः = तमबादिः, न तमबादिरतमबादिस्तस्मात् । [ईषदसमाप्ते ] ईषदसमाप्तः = ईषदसमाप्तस्तस्मिन् । [कल्पपदेश्यप्देशीयर् ] कल्पप् च देश्यप् च देशीयर् च = कल्पप्देश्यप्देशीयर् । त्यादेश्चेति वर्त्तते । पदार्थानां पूर्णता समाप्तिः, सा किञ्चिदूना ईषदसमाप्तिः ।
[पचतिकल्पम्, पचतिदेश्यम्, पचतिदेशीयम् ] ईषदसमाप्तं पचति = पचतिकल्पम्, पचतिदेश्यम्, पचतिदेशीयम् । अनेन कल्पप्-देश्यप्-देशीयप्र० → कल्प-देश्य-देशीय । सि-अम् ।
[पचतःकल्पम्, पचतोदेश्यम्, पचतोदेशीयम्] ईषदपरिसमाप्तं पचतः = पचत:कल्पम्, पचतोदेश्यम्, पचतोदेशीयम् । अनेन कल्पप्-देश्यप-देशीयप्र० → कल्प-देश्य-देशीय । सि-अम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org