________________
सप्तमाध्यायस्य तृतीयः पादः ॥
१८३
[गरीयान्, गुरुतरः] अयमनयोर्मध्येऽतिशयेन गुरुः = गरीयान् । अनेन ईयसुप्र० → ईयस् । 'प्रिय-स्थिरस्फिरोरु-गुरु-बहुल-तृप्र-दीर्घ-वृद्ध-वृन्दारकस्येमनि च प्रा-स्था-स्फा-वर-गर-०' (७।४।३८) इत्यादिना गुरोः
"गर"देश । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । 'स्महतोः' (१२४८६) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । एवम्-गुरुतरः । 'द्वयोविभज्ये च तरप्' (७।३।६) तरप्र० → तर ।
[लघीयान्, लघुतरः] अयमनयोर्मध्येऽतिशयेन लघुः = लघीयान् । अनेन ईयसुप्र० → ईयस् । 'त्रन्त्यस्वरादेः' (७४।४३) उलोपः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घङयाब' (१।४।७०) सिलुक् । एवम्-लघुतरः । 'द्वयोविभज्ये च तरप्' (७।३।६) तरप्प्र० → तर ।
[प्रदीयान्, मृदुतरः] अयमनयोर्मध्येऽतिशयेन मृदुः = प्रदीयान् । अनेन ईयसुप्र० → ईयस् । 'पृथु-मृदु-भृशकृश-द्रढ-परिवृढस्य ऋतो रः' (७।४।३९) रत्वम् । 'त्रन्त्यस्वरादेः' (७।४।४३) उलोपः । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । एवम्-मृदुतरः । 'द्वयोविभज्ये च तरप्' (७३।६) तरप्प्र० → तर ।
[परुद्भवान् पटुरासीत् पटीयानैषमः, पटुतरः] परुद्भवान् पटुरासीत्, द्वयोर्मध्ये पटुः = पटीयानैषमः । अनेन ईयसुप्र०, → ईयस् । 'त्रन्त्यस्वरादेः' (७।४।४३) उलोपः । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घझ्याब' (१।४।४५) सिलुक् । एवम्-पटुतरः । 'द्वयोर्विभज्ये च तरप्' (७।३६) तरप्प्र० → तर ।
- [माथुरेभ्यः पाटलिपुत्रकाः पटीयांसः, पटुतराः] माथुरेभ्यः पाटलिपुत्रकाः, इमे एषामतिशयेन पटवः = पटीयांसः । अनेन ईयसुप्र० → ईयस् । 'त्रन्त्यस्वरादेः' (७।४।४३) उलोप: । प्रथमा जस् । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'स्महतोः' (१।४।८६) दीर्घः । एवम्-पटुतराः । 'द्वयोविभज्ये च तरप' (७।३।६) तरप्र० → तर । जस् ।
[गोतमः ] पूर्ववत् साध्यः । [गोतरः] पूर्ववत् साध्यः । [पाचकतरः] पूर्ववत् साध्यः । [पाचकतमः ] पूर्ववत् साध्यः । [दन्ताः स्निग्धतराः ] पूर्ववत् साध्यः ।
[परुद्भवान् विद्वानासीत् ऐषमो विद्वत्तरः] परुद्भवान् ‘विदक् ज्ञाने' (१०९९) विद् । वेत्तीति विद्वान् । 'वा वेत्तेः क्वसुः' (५।२।२२) क्वसुप्र० → वस् । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । 'स्महतोः' (१।४।८६) दीर्घः । 'दीर्घयाब्' (१।४।४५) सिलुक् । 'पदस्य' (२।१६८९) सलुक् । आसीत् । द्वयोर्मध्ये विद्वान् = विद्वत्तरः । 'द्वयोविभज्ये च तरप्' (७।३।६) तरप्प्र० → तर । 'संस्-ध्वंस्-क्वस्सनडुहो दः' (२२११६८) स० → द० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । अत्र जातिक्रियाङ्गत्वान्न भवति । - [शुक्लतमम्, शुक्लतरं रूपम् ] प्रकृष्टं शुक्लं = शुक्लतमं रूपम् । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० → तम । अत्र हि गुण एव वृत्तिर्न तदुपसर्जने द्रव्य इति न भवति ।
ईयसोरुकार उदित्कार्यार्थः
[पटीयसी] पटु । स्वरादुतो गुणादखरोः' (२।४।३५) ङी। इयमनयोर्मध्ये पट्वी = पटीयसी । अनेन ईयसुप्र० → ईयस् । 'जातिश्च णि-तद्धितय-स्वरे' (३।२।५१) पुंवद्भावः । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । 'अधातूदृदितः' (२।४।२) ङी ॥छ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org