SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ अतीवतराम् ] अतीव एव = अतीवतराम् । 'क्वचित् स्वार्थे' (७।३।७) तरप्प्र० तर । अनेन अन्तस्य आम् । तर । अनेन अन्तस्य आम् । तर । अनेन अन्तस्य आम् । [ नतराम् ] न एव = नतराम् । 'क्वचित् स्वार्थे' (७।३।७) तरप्प्र० [ उच्चैस्तराम् ] उच्चैरेव = उच्चैस्तराम् । 'क्वचित् स्वार्थे' (७।३।७) तरप्प्र० [ उच्चैस्तमाम् ] बहूनां मध्ये उच्चैरुच्चैस्तमाम् । 'प्रकृष्टे तमप्' (७|३|५) तमप्प्र० [ शीघ्रतरं गच्छति ] द्वयोर्मध्ये प्रकृष्टं शीघ्रं शीघ्रतरम् । 'द्वयोर्विभज्ये च तरप्' (७|३|६) तरप्प्र० 'क्रियाविशेषणात् ' (२।२।४१) अम् । गच्छति । तम । अनेन अन्तस्य आम् । तर । [ किंतरं दारु ] द्वयोर्मध्ये प्रकृष्टं किं = किंतरम् । 'द्वयोर्विभज्ये च तरप्' (७३।६) तरप्प्र० → तर 1 १८२ = [ उच्चैस्तर:, उच्चैस्तमो वृक्षः ] उच्चैस्तरः पूर्ववत् । अग्रेतने पूर्ववत् । [ उत्तर: ] उत् मण्ड्यते । अयमनयोर्मध्ये प्रकृष्ट उत्कृष्ट ऊर्ध्वो वा = उत्तरः | [उत्तमः ] एषां मध्ये प्रकृष्ट उत्कृष्ट ऊर्ध्वो वा = उत्तम: । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम ॥छा गुणाङ्गाद् वेष्ठेसू ॥ ७।३।९ ॥ [ गुणाङ्गात् ] गुणोऽङ्गं-प्रवृत्तिनिमित्तं यस्य सः = गुणाङ्गस्तस्मात् । [वा ] वा प्रथमा सि । [ इष्ठेयसू ] इष्टश्च ईयसु च = इष्ठेयसू । औ । 'इदुतोऽस्त्रे दूत् ' (१।४।२१ ) ऊ । यः शब्दो गुणमभिधाय द्रव्ये वर्त्तते स गुणाङ्गः । तमबर्थे इष्टः । [पटिष्ठः, पटुतम: ] अयमेषामतिशयेन पटुः = पटिष्ठः । अनेन इष्ठप्र० । 'त्रन्त्यस्वरादेः' (७|४|४३) उलुक् । एवम्पटुतमः । प्रकृष्टे तमप्' (७|३|५) तमप्प्र० → तम । [पटिष्ठौ, पटुतमौ ] इमावेषामतिशयेन पटू पटिष्ठौ । एवम्-पटुतमौ । = [पटिष्ठाः पटुतमा: ] इमे एषामतिशयेन पटवः उलुक् । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम । [ लघिष्ठः, लघुतमः ] अयमेषामतिशयेन लघुः उलुक् । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम । पटिष्ठाः पटुतमाः । अनेन इष्ठप्र० । ' त्रन्त्यस्वरादेः' (७|४|४३) = लघिष्ठः, लघुतमः । अनेन इष्ठप्र० । ' त्रन्त्यस्वरादेः' (७|४|४३ ) [ गरिष्ठः, गुरुतमः ] अयमेषामतिशयेन गुरुः = गरिष्ठः । अनेन इष्ठप्र० । प्रिय स्थिर - स्फिरोरु-गुरु- बहुल-तृप्रदीर्घ-वृद्ध-वृन्दारकस्येमनि च प्रा-स्था- स्फा- वर - गर - बंह- त्रप - द्राघ - वर्ष-वृन्दम्' (७|४|३८) इत्यादिना गुरोः " गर”देशः । एवम् गुरुतमः । ‘प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम । Jain Education International [प्रदिष्ठः, मृदुतम: ] अयमेषामतिशयेन मृदुः प्रदिष्ठः । अनेन इष्ठप्र० । 'पृथु-मृदु- भृश- कृश- द्रढ - परिवृढस्य ऋतो रः' (७|४|३९) रत्वम् । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । एवम् - मृदुतमः । तरबर्थे ईयसु: = [ पटीयान्, पटुतर:] अयमनयोर्मध्येऽतिशयेन पटुः = पटीयान् । अनेन ईयसुप्र० ईयस् । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । प्रथमा सि । 'ऋदुदितः' (१|४|७० ) नोऽन्तः । 'न्स्महतो:' (१।४।८६) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । एवम् - पटुतरः । 'द्वयोर्विभज्ये च तरप्' (७३।६) तरप्प्र० तर । For Personal & Private Use Only - www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy