SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ [ पूर्वाह्णेतरां भुङ्क्ते ] पूर्वमह्नः "अह्न" देशश्च तस्मिन् । द्वयोर्मध्ये प्रकृष्टं पूर्वाह अनेन अन्तस्य आम् । 'कालात् तन-तर-तम- काले' (३।२।२४) इत्यादिना सप्तम्या अलुप्समासः । = = [ पूर्वाह्णतमां भुङ्क्ते ] पूर्वमह्नः पूर्वाह्णः । 'सर्वां - ऽश संख्या- ऽव्ययात् (७|३|११८) अट्समासान्तः “अह्न”देशश्च, तस्मिन् । एषां मध्ये प्रकृष्टं पूर्वाहणे = पूर्वाह्णतमाम् । 'प्रकृष्टे तमप्' (७|३|५) तमप्प्र० तम । अनेन अन्तस्य आम् । कालात् तन-तर-तम-काले' (३।२।२४) इत्यादिना सप्तम्या अलुप्समासः । 4 [ अपराह्णेतराम् ] द्वयोर्मध्ये प्रकृष्टं अपराह्णे = अपराह्णेतराम् । 'द्वयोर्विभज्ये च तरप्' (७|३|६) तरप्प्र० → तर । अनेन अन्तस्य आम् । 'कालात् तन-तर-तम- काले' ( ३।२।२४ ) इत्यादिना सप्तम्या अलुप्समासः । [ अपराह्णेतमाम् ] एषां मध्ये प्रकृष्टं अपराहणे = अपराह्णेतमाम् । 'प्रकृष्टे तमप्' (७|४|५) तमप्प्र० → तम । अनेन अन्तस्य आम् । ‘'कालात् तन-तर-तम- काले' ( ३।२।२४ ) इत्यादिना सप्तम्या अलुप्समासः । पूर्वाह्णः । 'सर्वां - ऽश - संख्या - ऽव्ययात् ' ( ७|३|११८) अट्समासान्तः पूर्वाहणेतराम् । 'द्वयोर्विभज्ये च तरप्' (७|३|६) तरप्प्र० → तर । [ प्राह्णेतराम् ] प्रकृष्टमह्नः = प्राण: । 'सर्वां - ऽश - संख्या -ऽव्ययात्' (७|३|११८) अट्समासान्तः "अह्न" देशश्च, तस्मिन् । द्वयोर्मध्ये प्रकृष्टं प्राहणे = प्राहणेतराम् । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० तर । अनेन अन्तस्य आम् । ‘कालात् तन०' ( ३।२।२४ ) इत्यादिना सप्तम्या अलुप्समासः । = = [ प्राह्णेतमाम् ] प्रकृष्टमह्नः प्राह्णः । 'सर्वां -ऽश - संख्या - ऽव्ययात्' (७|३|११८) अट्समासान्तः "अह्न”देशश्च, तस्मिन् । एषां मध्ये प्रकृष्टं प्राहणे प्राहणेतमाम् । ‘प्रकृष्टे तमप्' (७|३|५) तमप्प्र० तम । अनेन अन्तस्य आम् । 'कालात् तन०' (३|२|२४ ) इत्यादिना सप्तम्या अलुप्समासः । [ प्रगेतराम् ] द्वयोर्मध्ये प्रकृष्टं प्रगे = प्रगेतराम् । 'द्वयोर्विभज्ये च तरप्' (७|३|६) तरप्प्र० तर । अनेन अन्तस्य आम् । 'कालात् तन० ' ( ३।२।२४ ) इत्यादिना सप्तम्या अलुप्समासः । १८१ [ अग्रेतराम् ] द्वयोर्मध्ये प्रकृष्टं अग्रे अलुप्समासः । Jain Education International - [ प्रगेतमाम् ] एषां मध्ये प्रकृष्टं प्रगे = प्रगेतमाम् । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्रतम । अनेन अन्तस्य आम् । ‘कालात् तन०' (३।२।२४ ) इत्यादिना सप्तम्या अलुप्समासः । अग्रेतराम् । 'द्वयोर्विभज्ये च तरप्' (७।३।२४) इत्यादिना सप्तम्या = - [ अग्रेतमाम् ] एषां मध्ये प्रकृष्टं अग्रे = अग्रेतमाम् । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्रतम् । अनेन अन्तस्य आम् । 'कालात् तन तर०' (३।२।२४ ) इत्यादिना सप्तम्या अलुप्समासः । अग्रेशब्दोऽपि कालवाची, अथवा विभक्त्यर्थो न द्रष्टव्यम्, तत्प्रकर्षेऽत्र तरप्तमपौ । For Personal & Private Use Only [जेतर:] 'जिं अभिभवे' (८) जि । जयतीति जे । 'मन् वन्- क्वनिप् -विच् क्वचित्' (५।१।१४७) विच्प्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'अप्रयोगीत् ' (१।१।३७) विच्लोपः । द्वयोर्मध्ये प्रकृष्टे जे = जेतरः । 'द्वयोर्विभज्ये च तरप्' (७३।६) तरप्प्र० तर । अव्यय - [ नितराम् ] नि एव = नितराम् । 'क्वचित् स्वार्थे' (७|३|७) तरप्प्र० तर । अनेन अन्तस्य आम् । [ सुतराम् ] सु एव = सुतराम् । 'क्वचित् स्वार्थे' (७|३|७) तरप्प्र० तर । अनेन अन्तस्य आम् । [ अतितमाम् ] बहूनां मध्ये प्रकृष्टाऽति = अतितमाम् । 'प्रकृष्टे तमप्' (७|३|५) तमप्प्रतम । अनेन अन्तस्य आम् । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy