SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । सांकाश्यकादिषु पाटलिपुत्रकादीनामप्रवेशात् विभागः पृथग्भावः विभज्यस्य च विशेषणमप्याढ्याद्यर्थः प्रकृष्टं विभज्यं भवति विशेषणात् ततः प्रत्ययः । १८० [ गवां कृष्णा: [ गौ: ] संपन्नक्षीरतमा ( : ) ] गवां कृष्णाः प्रकृष्टाः संपन्नक्षीराः = संपन्नक्षीरतमाः । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० → तम । विभज्यश्च भेदरूपमापन्नानां भवति, अत्र तु गोत्वेन सर्वा अपि कृष्णा गावोऽभिन्नाः । [ सांकाश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रका आढ्यतमाः] सांकाश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रकाः प्रकृष्टाः आढ्याः = आढ्यतमाः । 'प्रकृष्टे तमप्' (७|३|५) तमप्प्र ० तम । जस् । विभज्यग्रहणमद्वित्वार्थम् । [ शुक्लतरा शाटी] शुक्ला इयमनयोर्मध्ये प्रकृष्टा शुक्ला = शुक्लतरा शाटी । अनेन तरप्प्र० तर । 'आत्' (२|४|१८) आप्प्र० आ । ॥छ । क्वचित् स्वार्थे ॥ ७३॥७ ॥ [ क्वचित् ] क्वचित् प्रथमा सि । 'अनतो लुप्' (१।४।५९) लुप् । ('अव्ययस्य' (३|२|७) सिलुप्) । [ स्वार्थे ] स्वार्थ सप्तमी ङि । = [ अभिन्नतरकम् ] अभिन्नमेव अभिन्नतरकम् । अनेन तरप्प्र० तर । अनत्यन्तं अभिन्नतरमभिन्नतरकम् । 'क्तात् तमबादेश्चानत्यन्ते' (७|३|५६) कप्प्र० क । [ उपपन्नतरकम् ] उपपन्नमेव = उपपन्नतरकम् । अनेन तरप्प्र० तर । उपपन्न (तर) मेव तमबादेश्चानत्यन्ते' (७|३|५६) कप्प्र० क । [ उच्चैस्तराम् ] उच्चैरेव = उच्चैस्तराम् । अनेन तरप्प्र० तर सि-अम् ॥छ|| किं-त्याद्येऽव्ययादसत्त्वे तयोरन्तस्याऽऽम् ॥ ७३॥८ ॥ किंत्याद्येऽव्ययात् ] किञ्च त्यादिश्च एश्च अव्ययं च = किंत्याद्येऽव्ययम्, तस्मात् । असत्त्वम्, तस्मिन् । [ असत्त्वे ] सीदतो लिङ्गं (ङ्ग) - संख्येऽस्मिन्निति सत्त्वम् । न सत्त्वम् = [ तयोः ] तद् सप्तमी ओस् । [ अन्तस्य ] अन्त षष्ठी ङस् । [ आम्] आम् प्रथमा सि । [ किंतरां पचति ] इदमनयोरतिशयेन किं पचति = किंतरां पचति । 'द्वयोर्विभज्ये च तरप्' (७|३|६) तरप्प्र० तर । अनेन अन्तस्य आम् । [ किंतमां पचति ] इदमेषामतिशयेन किं पचति = किंतमां पचति । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्रतम् । अनेन अन्तस्य आम् । प्रथमा सि । 'अव्ययस्य' (७२|७) । सिलुप् । = उपपन्नतरकम् । ‘तात् [ पचतितराम् ] द्वाविमौ पचतः, अयमनयोरतिशयेन पचति = पचतितराम् । 'द्वयोर्विभज्ये च तरप्' (७|३|६) तरप्प्र० → तर । अनेन अन्तस्य आम् । [ पचतितमाम् ] सर्वे इमे पचन्ति, अयमेषां प्रकृष्टं पचति = पचतितमाम् । 'प्रकृष्टे तमप्' (७|३|५) तमप्प्र० → तम । अनेन अन्तस्य आम् । म० वृत्तौ अभिन्नमेव अभिन्नतरकम् । 'यावादिभ्यः कः' (७|३|१५) क प्र० । 卐 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy