________________
सप्तमाध्यायस्य तृतीयः पादः ॥
[ शुक्लतमा शाटी] शुक्ला । प्रकृष्टा शुक्ला शुक्लतमा शाटी । अनेन तमप्प्र० तम । 'क्यङ् - मानिपित्तद्धिते' (३।२।५०) पुंवद्भावः । 'आत्' (२|४|१८) आप्प्र० आ छ
द्वयोर्विभज्ये च तरप् ॥ ७|३|६ ॥
=
[द्वयोः ] द्वि सप्तमी ओस् ।
[विभज्ये ] 'भजीं सेवायाम्' (८९५) भज्, विपूर्व० । विभज्यते सहि-यजि - भजि-पवर्गात्' (५।१।२९) यप्र०, तस्मिन् ।
[च] च प्रथमा सि ।
[तरप्] तरप् प्रथमा सि ।
अनेन तरप्प्र० → तर ।
[ पटुतरः] द्वाविमौ पटू, अयमनयोर्मध्ये प्रकृष्टः पटुः = पटुतरः । [ सुकुमारतरः ] द्वाविमौ सुकुमारौ, अयमनयोर्मध्ये प्रकृष्टः सुकुमारः [ पाचकतर: ] द्वाविमौ पाचकौ, अयमनयोर्मध्ये प्रकृष्टः पाचकः = पाचकतरः । अनेन तरपूप्र० → तर ।
सुकुमारतरः । अनेन तरप्प्र० तर ।
[ गोतरो यः शकटं वहति सीरं च] द्वाविमौ गावौ अयमनयोर्मध्ये प्रकृष्टो गौ: गोतरो यः शकटं शी (सी) रं च वहति । अनेन तरप्प्र० तर ।
=
Jain Education International
=
[ गोतरा या समां समां विजायते स्त्रीवत्सा च] द्वे इमे गावौ इयमनयोर्मध्ये प्रकृष्टा गौः तर । 'आत्' (२|४|१८) आप्प्र० आ । स्त्रीवत्सा च ।
तरप्प्र
यथौषधिरसाः सर्वे, मधुन्याहितशक्तयः ।
अविभागेन वर्त्तन्ते, तां संख्यां तादृशीं विदुः ॥ १ ॥
१७९
विभज्यम् । 'शकि- तकि- चति-यति-शसि
=
[ दन्ताः स्निग्धतराः ] दन्ताश्च ओष्ठौ च = दन्तौष्ठम् । 'प्राणि- तूर्याङ्गाणाम्' (३|१|१३७) इत्यनेन एकत्वम् । दन्तौष्ठस्य मध्ये स्निग्धतराः । मध्ये इति अर्थकथनकारणे भणितोऽस्ति मूलवाक्ये न ।
For Personal & Private Use Only
[पाणी सुकुमारतरौ ] पाणी च पादौ च = पाणिपादम् । 'प्राणि- तूर्याङ्गाणाम् ' ( ३।१।१३७) एकत्वम् । पाणिपादस्य मध्ये = पाणी सुकुमारतरौ ।
अभेदैकत्वसंख्या इति शब्दा व्याख्यायते । न विद्यते भेदो यस्याः सा = अभेदा, सा चासावेकत्वसंख्या च = अभेदैकत्वसंख्या ।
गोतरा । अनेन
चैत्रेण चैत्राभ्यां चैत्रैर्वा भूयते इत्यत्र या संख्या सा अभेदैकत्वसंख्येति । यदा इतरेतरयोगस्तदा बह्वर्थप्रकर्ष इति तमबेव भवति ।
[ परुद्भवान् पटुरासीत् पटुतर ऐषमः ] परुद्भवान् पटुरासीत् पटुतरः ऐषमः । अनेन तरप्प्र० तर ।
विभज्ये [ सांकाश्यकेभ्यः पाटलिपुत्रका आढ्यतराः, अभिरूपतराः, सुकुमारतराः ] सांकाश्यकेभ्यः पाटलिपुत्रकाः, इमे आढ्याः, इमे आढ्याः, अमी अमीभ्यः अतिशयेन आढ्याः = आढ्यतराः । अनेन तरप्प्र० → तर । जस् । इमे अभिरूपाः, इमे अभिरूपाः, अमी अमीभ्यः अतिशयेन अभिरूपाः = अभिरूपतराः । अनेन तरप्प्र० तर । स् । इमे सुकुमाराः (२), अमी अमीभ्यः अतिशयेन सुकुमाराः = सुकुमारतराः । अनेन तरप्प्र० तर । जस् ।
www.jainelibrary.org