________________
१७८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[गोतमेयं या समां समां विजायते स्त्रीवत्सा च] प्रकृष्टा गौः = गोतमा इयं या समां समां विजायते । चैत्ररूपस्य द्रव्यस्यापेक्षया द्रव्यान्तरवस्त्रादि तत्समवायिना सूक्ष्मत्वादिना प्रकृष्टगुणं च द्रव्यवतश्चैत्रादेः परमार्थतस्तमप् न प्राप्नोति बाहुलकात्तु भवतीति स्त्रीवत्सा चेति स्त्री वत्सा यस्याः सा, तथा सवत्सेत्युक्ते सह वत्सेन वत्सया वा वर्तते इति संशयः । स्यात् ।
द्रव्यान्तरसमवायिना च प्रकृष्टेन गुणेन कृत्वा प्रकृष्टे द्रव्ये तद्वतः प्रत्ययो भवति ।
[सूक्ष्मवस्त्रतमः ] अतिशयेन सूक्ष्माणि वस्त्राण्यस्य = सूक्ष्मवस्त्रतमः । अनेन तमप्र० → तम । प्रकर्षप्रत्ययान्ताच्च प्रकर्षस्यापि प्रकर्षविवक्षायां प्रत्ययो भवति । यथा
[युधिष्ठिरः श्रेष्ठतमः कुरूणाम् ] युधिष्ठिरः । 'शंसू स्तुतौ च' (५५०) शंस्, प्रपूर्व० । प्रशस्यत इति प्रशस्यम् । 'शकि-तकि-चकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात्' (५।१।२९) यप्र० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।८५) नलुक् । इदं प्रशस्यं(२), इदमनयोर्मध्येऽतिशयेन प्रशस्यं = श्रेष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७३।९) इष्ठप्र० । 'प्रशस्यस्य श्रः' (७।४।३४) प्रशस्यस्थाने "श्र"देशः । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए । प्रकृष्टः श्रेष्ठः = श्रेष्ठतमः । अनेन तमपप्र०
→ तम । कुरु । कुरोरपत्यानि । 'दु-नादि-कुर्वित्-कोशला-ऽजादाव्यः ' (६।१।११८) ज्यप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) लुप् । तेषां = कुरूणाम् ।
[सूक्ष्मतमवस्त्रः] प्रकृष्टं सूक्ष्म = सूक्ष्मतमम् । अनेन तमप्र० → तम । सूक्ष्मतमं वस्त्रं यस्य सः = सूक्ष्मतम [सूक्ष्मवस्त्रतमः ] प्रकृष्टः सूक्ष्मवस्त्रः = सूक्ष्मवस्त्रतमः । अनेन तमप्र० → तम ।
[बह्वाट्यतमकः ] प्रकृष्टा आढ्याः = आढ्यतमाः । अनेन तमप्प्र० → तम । बहव आढ्यतमा यत्र सः = बह्वाट्यतमः । बह्वाट्यतम एव = बाढ्यतमकः । स्वार्थे कप्र० । द्वयोः प्रकर्षे तरपो विधानात् बहूनां प्रकर्षेऽयं विधिः ।
[प्रधानतमोऽयं ग्रामे] प्रकृष्टः प्रधानं = प्रधानतमोऽयं ग्रामे । अनेन तमपप्र० → तम ।
[आढ्यतमोऽयं नगरे] प्रकृष्टः आढ्यः = आढ्यतमः । अनेन तमप्र० , तम । - ग्रामपुरुषयोर्द्वयोः प्रकर्षे न प्राप्नोतीति कथमर्थः ? एकस्मिन्नपि नगरे ग्रामे वा निर्दिष्टे समुदाये तदन्तर्गतावयवान्तरापेक्षया प्रकर्षे भविष्यति ।
[महत्सर्षपं महान् हिमवानिति] महत्सर्षपमित्यत्र प्राधान्यनामत्वात् पुंस्त्वे प्राप्ते बाहुलकानपुंसकत्वम्, शुक्लापेक्षया च कृष्णे मा भूत् तरप् ।
अदूरविप्रकर्षे समानगुणक्रिययोश्च स्पर्धा भवति, न हि निष्कधनः शतनिष्कधनेन स्पर्धते । आढ्याभिरुपौ वा गन्तुपाचकौ वा । तथा च तन्निमित्तः प्रकर्षोऽपि नास्ति ।
[अहिंसकः श्रेयान् पापीयान् प्राणिनां हन्ता] प्रशस्यस्य साधना पूर्वलिखिता ज्ञेया । अयं प्रशस्य:(२), अयमनयोर्मध्येऽतिशयेन प्रशस्यः = श्रेयान्, अहिंसक(:) । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसप्र० । 'प्रशस्यस्य श्रः' (७।४।३४) "श्र"देशः । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए । प्रथमा सि । पापिन् मण्डयते । प्रकृष्टः पापी = पापीयान् । 'गुणाङ्गाद्' (७।३।९) । ईयस्प्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् । प्राणिनां हन्तेत्यत्र तरबर्थे ईयस् । नैतयोः परस्परं स्पर्धा, किं तर्हि ? अन्यापेक्षा । श्रेयः पापीयसोविषमगुणत्वात् स्पर्धाभावे प्रकर्षाभावादित्याशयः ।
पकारः पुंवद्भावार्थः -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org