SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ [ पाशप्] पाशप् प्रथमा सि [ वैयाकरणपाश: ] वैयाकरण मांडणीय । निन्द्यो वैयाकरणः वैयाकरणपाशः । अनेन पाशपुप्र० → पाश । [ छान्दसपाश: ] छन्दस् । छन्दोऽधीते = छान्दसः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । निन्द्यः छान्दसः = छान्दसपाशः । अनेन पाशपूप्र० पाश । पकारः पुंवद्भावार्थ: [कुमारपाशा ] कुमार 'वयस्यनन्त्ये' (२।४।२१) ङी 'अस्य ड्यां लुक्' (२२४१८६) अलुक् कुत्सिता कुमारी I कुमारपाशा । अनेन पाशप्प्र० पाश 'क्यङ् मानि पित्तद्धिते' (३२५०) पुंवद्भावः ङीगतेत्यर्थः । 'आत्' (२|४|१८) आप्प्र ० आ । [ किशोरपाशा ] किशोर 'वयस्यनन्त्ये' किशोरी = किशोरपाशा । अनेन पाशप्प्र० 'आत्' (२।४।१८) आपूप्र० आ ॥ छा (२।४।२१ ) ङी 'अस्य लुक् (२२४१८६) अलुक् । कुत्सिता पाश । 'क्यङ् मानि - पित्तद्धिते' (३।२।५०) पुंवद्भावः-ङीगतेत्यर्थः । प्रकृष्टे तमप् ॥ ७।३५ ॥ [ प्रकृष्टे] प्र 'कृषत् विलेखने' (१३१९) कृष् । प्रकर्षणं = प्रकृष्टम् । 'क्लीबे क्तः' (५|३|१२३) क्तप्र० त । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च - टवर्गी' (१।३।६०) त०ट० । प्रकृष्टमस्यास्ति । 'अभ्रादिभ्यः' (७|२|४६) अप्र० । 'अवर्णेवर्णस्य' (७४६८) अलुक् तस्मिन् । [ तमप्] तमप् प्रथमा सि । Jain Education International = प्रकृष्टः प्रकर्षोऽतिशय: एक एव त्रीणि नामानि स च गुणक्रिययोरेव न जातिद्रव्ययोः । [ शुक्लतमः ] सर्वे इमे शुक्ला: । अयमेषां प्रकृष्टः शुक्लः = शुक्लतमः । अनेन तमप्प्र० [ शुक्लतमौ ] सर्वे इमे शुक्ला: । इमावेषां प्रकृष्टौ शुक्लौ शुक्लतमौ। अनेन तमप्प्र० । [ शुक्लतमा: ] सर्वे इमे शुक्ला: । इमे एषां प्रकृष्टा: शुक्ला: = शुक्लतमा: । अनेन तमप्प्र० तम । जस् । [ आढ्यतमः ] सर्वे इमे आढ्याः । अयमेषां प्रकृष्टः आढ्यः = आढ्यतमः । अनेन तमप्प्र० → तम । [सुकुमारतमः ] सु 'कुमारण् क्रीडायाम्' (१९११) कुमार 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । सुखेन कुमारयतीति सुकुमार: । 'अच्' (५|१|४९) अच्प्र० अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । सर्वे इमे सुकुमाराः । अयमेषां प्रकृष्टः सुकुमारः = सुकुमारतमः । अनेन तमप्प्र० तम । → १७७ → For Personal & Private Use Only = तम । सि । तम । औ । । 1 तम । [ कारकतमः ] सर्वे इमे कारकाः । अयमेषां प्रकृष्टः कारकः = कारकतमः । अनेन तमप्प्र० [ साधकतमः ] सर्वे इमे साधकाः । अयमेषां प्रकृष्टः साधकः = साधकतमः । अनेन तमप्प्र० [ प्रकृष्टतमः ] सर्वे इमे प्रकृष्टाः । अयमेषां प्रकृष्टः प्रकृष्टः = प्रकृष्टतमः । अनेन तमप्प्र० → तम । गौरयं यः सुसन्नहनः शकटं वहति सुसम्बद्धः । एतत्प्रयोगापेक्षया अग्रेतनप्रयोगे प्रकर्षप्रतीति गोतम इति [ गोतमोऽयं यः सुलक्षणः शकटं सीरं च वहति ] प्रकृष्टो गौः = गोतमोऽयं यः सुलक्षणः शकटं सीरं च वहति । प्रकृष्टगुणं च द्रव्यवतश्चैत्रादेः परमार्थतस्तमप् न प्राप्नोति बाहुलकातु भवतीति तम । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy