SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ यवागूमयी इष्टिः ] यवागूः प्रकृता अस्यां सा = यवागूमयी इष्टिः । अनेन मयट्प्र० मय । 'अणञेयेकण्०' (२।४।२० ) ङी । यवागूशब्देन खीरिरुच्यते ||छ । तयोः समूहवच्च बहुषु ॥ ७|३ | ३ || १७६ [ तयोः ] तद् सप्तमी ओस् । [समूहवत् ] समूहे इव [च] च प्रथमा सि । = समूहवत् । 'तत्र' (७|१|५३) वत्प्र० । [ बहुषु ] बहु सप्तमी सुप् । [ आपूपिकम्, अपूपमयम् ] अपूपाः प्रकृताः आपूपिकम् । अनेन विहितः 'कवचि - हस्त्यचित्ताच्चेकण्' (६।२।१४ ) इकण्प्र० इक । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । एवम् अपूपमयम् । अनेन मयट्प्र० मय । = [ मौदकिकम्, मोदकमयम् ] मोदकाः प्रकृताः = मौदकिकम् । 'कवचि - हस्त्यचित्ताच्चेकण्' (६।२।१४ ) इकण्प्० → इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम् मोदकमयम् । अनेन मयट्प्र० मय । [ शाष्कुलिकम्, शष्कुलीमयम् ] शष्कुल्यः प्रकृताः = शाष्कुलिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) ईलुक् । एवम् - शष्कुलीमयम् । अनेन मयट्प्र० मय । [ धैनुकम्, धेनुमयम् ] धेनु । धेनवः प्रकृताः धैनुकम् । 'धेनोरनञः' (६।२।१५) इकण्प्र० इक । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः । 'ऋवर्णोवर्ण- दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (७|४|७१) इकारलुक् । एवम् - धेनुमयम् । अनेन मयट्प्र० मय । = [ आपूपिकम्, अपूपमयं पर्व ] अपूपाः प्रकृता अस्मिन् = आपूपिकम् । 'कवचि - हस्त्यचित्ताच्चेकण्' (६।२।१४ ) इकण्प्र० → इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम् अपूपमयम् । अनेन मयट्प्र० मय । = [ मौदकिकी, मोदकमयी पूजा ] मोदकाः प्रकृता अस्मिन् मौदकिकी । अनेन इकण्प्र० इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । 'अणञेयेकण्०' (२।४।२०) ङी । एवम् - मोदकमयी पूजा । अनेन मयट्प्र० → मय । 'अणञेयेकण्०' (२।४।२०) ङी । [गाणिक्या, गणिकामयी यात्रा ] गणिकाः प्रकृता अस्यां यात्रायां = गाणिक्या । 'गणिकाया ण्यः' (६।२।१७) ण्यप्र०य । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । एवम् - गणिकामयी यात्रा । अनेन मयट्प्र० मय । 'अणजेयेकण्०' (२।४।२० ) ङी । Jain Education International [ अश्वीया, अश्वमयी यात्रा ] अश्वाः प्रकृता अस्यां यात्रायाम् अश्वीया । 'वाऽश्वादीय:' ( ६ २१९ ) ईयप्र० । 'अवर्णवर्णस्य' (७|४|६८) अलुक् । एवम् अश्वमयी यात्रा । अनेन मयट्प्र० मय । 'अणञेयेकण्०' (२।४।२०) ङी |छ || = निन्द्ये पाशप् ॥ ७।३।४ ॥ [ निन्द्ये ] 'णिदु कुत्सायाम्' (३११) णिद् । 'पाठे धात्वादेर्णो नः' (२।३।९७) निद् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । निन्द्यत इति । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५|१|१७) घ्यण्प्र०य, तस्मिन् । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy