SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ १७५ ॥ अहम् ॥ ॥ अथ सप्तमाध्यायस्य तृतीयः पादः ॥ प्रकृते मयट् ॥ ७॥३॥१॥ [प्रकृते ] प्रकृत सप्तमी ङि। [मयट्] मयट् प्रथमा सि । प्राचुर्येण प्राधान्येन वा कृतं = प्रकृतम्, तस्मिन् । [अन्नमयम् ] अन्नं प्रकृतम् = अन्नमयम् । अनेन मयट्प्र० → मय । [घृतमयम् ] घृतं प्रकृतं = घृतमयम् । अनेन मयट्प्र० → मय । [दधिमयम् ] दधि प्रकृतं = दधिमयम् । अनेन मयट्प्र० → मय । [यवागूमयी ] यवागूः प्रकृता = यवागूमयी । अनेन मयट्प्र० → मय । 'अणजेयेकण्-नञ्' (२।४।२०) ङी । [यवागूमयम् ] अतिवर्त्तन्ते त्यजन्ति स्वार्थिकाः प्रकृत(ति)लिङ्गवचनानीति यवागूः प्रकृता = यवागूमयम् । अनेन मयट्प्र० → मय । [आपूपिकम्, अपूपमयम् ] अपूपाः प्रकृताः = आपूपिकम् । 'कवचि-हस्त्यचित्ताच्चेकण्' (६।२।१४) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-अपूपमयम् । अनेन मयट्प्र० →मय । [शाष्कुलिकम्, शष्कुलीमयम्] शष्कुल्यः प्रकृताः = शाष्कुलिकम् । 'कवचि-हस्त्यचित्ताच्चेकण्' (६।२।१४) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । एवम्-शष्कुलीमयम् । अनेन मयट्प्र० → मय ॥छ।। अस्मिन् ॥ ७।३।२ ॥ [अस्मिन् ] अस्मिन् सप्तमी ङि । सूत्रत्वात् (लोपः) । [अन्नमयं भोजनम् ] अन्नं प्रकृतमस्मिन् = अन्नमयं भोजनम् । अनेन मयट्प्र० → मय । [अपूपमयं पर्व] अपूपाः प्रकृता अस्मिन् = अपूपमयं पर्व । अनेन मयट्प्र० → मय । [वटकमयी यात्रा] वटका प्रकृता अस्यां सा = वटकमयी यात्रा । अनेन मयदप्र० → मय । 'अणजेयेकण.' (२।४।२०) ङी । - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy