SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ १७३ [काो मृगः, कृष्ण एवान्यः] कृष्ण एव = कार्णो मृगः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । कृष्ण एवान्यः ॥छ।। . कमणः सान्ट । कर्मणः सन्दिष्टे ॥ ७।२।१६७ ॥ [कर्मणः] कर्मन् पञ्चमी ङसि । [सन्दिष्टे] सन्दिष्ट सप्तमी ङि । अन्येनान्योऽन्यस्मै यदाह त्वयेदं कर्तव्यमिति तत् सन्दिष्टं कर्म । [कार्मणं करोति ] कर्मैव = कार्मणं करोति । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धि: आ । .सन्दिष्टं कर्म करोतीत्यर्थः । वशीकरणमपि वृद्धपरम्परोपदेशात् क्रियते इति कार्मणमुच्यते ॥छ।। वाच इकण् ॥ ७।२।१६८ ॥ [वाचः] वाच् पञ्चमी ङसि । [इकर्ण] इकण् प्रथमा सि । अन्येनान्योऽन्यस्मै यां वाचमाह सा सन्दिष्टा वाक् । [वाचिकं कथयति ] वागेव = वाचिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । सन्दिष्टं वाचं कथयतीत्यर्थः ॥छ।। विनयादिभ्यः ॥७।२।१६९ ॥ [विनयादिभ्यः] विनय आदिर्येषां ते = विनयादयः, तेभ्यः = विनयादिभ्यः । पञ्चमी भ्यस् । [वैनयिकम् ] विनय एव = वैनयिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।। [सामयिकम्] समय एव = सामयिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ॥छ।। उपायाद्धस्वश्च ॥ ७।२।१७० ॥ [उपायात्] उपाय पञ्चमी ङसि । [हूस्वश्च] हुस्व प्रथमा सि । च प्रथमा सि । [औपयिकम् ] उपाय = एव औपयिकम् । अनेन इकण्प्र० → इक-हुस्वश्च । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। मृदस्तिकः ॥ ७।२।१७१ ॥ [ मृदः] मृद् पञ्चमी ङसि । [तिकः ] तिक प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [ मृत्तिका ] मृद् मण्ड्यते । मृदेव = मृत्तिका । अनेन तिकप्र० । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy