________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
१७१
[चातुर्वैद्यम् ] चत्वारो वेदाः = चातुर्वैद्यम् । चतस्रो विद्या वा = चातुर्वि(4)द्यम् । अनेन ट्यणप्र० → य । 'अनुशतिकादीनाम्' (७४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । 'व्यञ्जनात् पञ्चमाऽन्तस्थायाः सरूपे वा' (१।३।४७) यलोपः । एवमग्रेऽपि ज्ञेयम् ।
[त्रैवैद्यम् ] त्रयो वेदाः-तिस्रो विद्या वा = त्रैवैद्यम् । अनेन ट्यणप्र० → य । शेषं पूर्ववत् ।
[त्रैलोक्यम् ] त्रि-लोक उदाहरण मांडणी । त्रयाणां लोकानां समाहारः = त्रिलोकी । 'द्विगोः समाहारात्' (२।४।२२) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक्, इति वाक्यनिष्पत्तिः । त्रिलोक(की) एव = त्रैलोक्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।
[ऐकभाव्यम् ] एकेन भवनम् = एकभावः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । एकभाव एव = ऐकभाव्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । एकत्वम् ।
[द्वैभाव्यम् ] द्वयोर्भवनं = द्विभावः । 'भावा-ऽकोंः' (५।३।१८) घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । द्विभाव एव = द्वैभाव्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वित्वम् ।
[त्रैभाव्यम् ] त्रयाणां भवनं = त्रिभावः । 'भावा-ऽकोंः' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । त्रिभाव एव = त्रैभाव्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धि: ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । त्रित्वम् । ।
[आन्यभाव्यम् ] अन्यभाव एव = आन्यभाव्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।। - [सार्ववैद्यम् ] सर्वविद्यैव = सार्ववैद्यम् । अनेन ट्यणप्र० → य । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । 'व्यञ्जनात् पञ्चमाऽन्तस्थायाः सरूपे वा' (१।३।४७) यलोपः । सि-अम् ।
- [सार्वलौक्यम् ] सर्वलोक एव = सार्वलोक्यम् । अनेन ट्यणप्र० → य । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।।
[षागुण्यम् ] षष्-गुण मण्ड्यते । षट् च ते गुणाः = षड्गुणाः । 'धुटस्तृतीयः' (२।१७६) ष० → ड० । षड्गुणा एव = षाड्गुण्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । .
[शैलीयमाचार्यस्य ] शीलमेव = शैली । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'व्यज्जनात् तद्धितस्य' • (२।४।८८) यलुक् । इदम् प्रथमा सि । 'अयमियम् पुंस्त्रियोः सौ' (२।१।३८) इदमिसंडे इयम् देशः । आचार्यस्य ।
भैषज्या आनन्त्या आवसथ्या ऐतिह्यशब्दा यदि स्त्रियां स्युस्तदा अजादिषु द्रष्टव्याः । 'अजादेः' (२।४।१६) इत्यनेन - आप भवतीत्यर्थः, अन्यथा ट्यणन्तत्वात् 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी स्यात् ॥छ।
प्रज्ञादिभ्योऽण् ॥ ७।२।१६५ ॥ [प्रज्ञादिभ्यः] प्रज्ञा(ज्ञ) आदिर्येषां ते = प्रज्ञादयः, तेभ्यः = प्रज्ञादिभ्यः । पञ्चमी भ्यस् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org