________________
१७०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां ।
___प्रात् पुराणे नश्च ॥ ७।२।१६१ ॥ [प्रात्] प्र पञ्चमी ङसि ।। [पुराणे] पुराण सप्तमी ङि । [नश्च] न प्रथमा सि । 'सो रुः' (२२११७२) स० → र० । च प्रथमा सि ।
[प्रणम्, प्रीणम्, प्रतनम्, प्रत्नम्] प्रगतं कालेनेति वाक्यम् । प्रशब्देन पुराणमुच्यते । प्रणम्, प्रीणम्, प्रतनम्, प्रत्नम् । अनेन न-इन-तन-त्नप्र० । सि-अम् ।।छ।।
देवात् तल् ॥ ७।२।१६२ ॥ [देवात्] देव पञ्चमी ङसि । [तल्] तल् प्रथमा सि । [ देवता] देव एव = देवता । अनेन तलप्र० → त० । 'आत्' (२।४।१८) आप्प्र० → आ । लित्करणं स्त्र्यर्थम् ॥छ।
होत्राया ईयः ॥ ७।२।१६३ ॥ [होत्रायाः] होत्रा पञ्चमी ङसि । 'आपो ङितां यै-यास्-यास्-याम्' (१।४।१७) ङसि० → यास् । [ईयः] ईय प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । [होत्रीयम् ] होत्रैव = होत्रीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ॥छ।।
भेषजादिभ्यष्ट्यण् ॥ ७।२।१६४ ॥ [भेषजादिभ्यः ] भेषज आदिर्येषां ते = भेषजादयः, तेभ्यः = भेषजादिभ्यः । पञ्चमी भ्यस् । [ट्यण्] ट्यण् प्रथमा सि ।।
[ भैषज्यम् ] भेषजमेव = भैषज्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७।४।१) वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[आनन्त्यम् ] अनन्त एव = आनन्त्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । ___ [आवसथ्यम् ] आवसथ एव = आवसथ्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[ऐतिह्यम्] इतिह इत्येव = ऐतिह्यम् । अनेन ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
इतिहेति निपातसमुदाय उपदेशपारम्पर्ये वर्त्तते ।
[चातुर्वर्ण्यम्] चत्वार एव वर्णाश्चातुर्वर्ण्यम् । अनेन ट्यणप्र० → य । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[चातुराश्रम्यम् ] चत्वार एव आश्रमाः = चातुराश्रम्यम् । अनेन ट्यणप्र० → य । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org