________________
सप्तमाध्यायस्य द्वितीयः पादः ॥
[एफः] एफ प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[रेफः] र एव = रेफः । अनेन एफप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रायोवचनात् र एव = रकारः । 'वर्णा-ऽव्ययात् स्वरूपे कारः' (७।२।१५६) कारप्र० ॥छ।।
नाम-रूप-भागाद् धेयः ॥ ७।२।१५८ ॥ [नामरूपभागात् ] नाम च रूपं च भागश्च = नामरूपभागम्, तस्मात् । [धेयः] धेय प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।। [नामधेयम् ] नामैव = नामधेयम् । अनेन धेयप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । सि-अम् । [ रूपधेयम् ] रूपमेव = रूपधेयम् । अनेन धेयप्र० । सि-अम् । [भागधेयम् ] भाग एव = भागधेयम् । अनेन धेयप्र० । सि-अम् ॥छ।।
मादिभ्यो यः ॥ ७।२।१५९ ॥ [मर्तादिभ्यः] मर्त्त आदिर्येषां ते = मर्त्तादयः, तेभ्यः = मर्त्तादिभ्यः । पञ्चमी भ्यस् । [यः] य प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [ मर्त्यः] मर्त्त एव = मर्त्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [ सूर्यः] सूर एव = सूर्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [क्षेम्यः ] क्षेम एव = क्षेम्य: । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [यविष्यः] यविष एव = यविष्यः । अनेन यप्र० । 'नाम्यन्तस्था-कवर्गात्०' (२।३।१५) स० → ष० [भाग्यम् ] भाग एव = भाग्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [अपराध्यम् ] अपराध एव = अपराध्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[रव्यम् ] रव एवं = रव्यम् । अनेन यप्र० । 'अवर्णवर्णस्य' (७/४/६८) अलुक् ।
[लव्यम् ] लव एव = लव्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।।
नवादीन-तन-लं च नू चास्य ॥ ७।२।१६० ॥ [नवात् ] नव पञ्चमी ङसि । [ईनतननम् ] ईनश्च तनश्च लश्च = ईनतनत्नम् । [च] च प्रथमा सि । [नू] नू प्रथमा सि । सूत्रत्वात् (लोपः) । [च] च प्रथमा सि । [अस्य ] इदम् षष्ठी ङस् ।
[नवीनम्, नूतनम्, नूत्नम्, नव्यम्] नव । नवमेव = नवीनम्, नूतनम्, नूत्नम्, नव्यम् । अनेन ईन-तन-नयप्र० ॥छ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org