SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ १६७ [विद्या] विद्या प्रथमा सि । 'दीर्घझ्याब्' (१।४।४५) सिलुक् । [चेत् ] चेत् प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [द्वितीयम्, द्वैतीयीकम्, द्वैतीयीकी शाटी] द्वितीयमेव = द्वैतीयीकम्, द्वितीयम् । अनेन विकल्पेन टीकण्प्र० → ईक । 'वृद्धि: स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । टकारो ङ्यर्थः । 'अणजेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । [तृतीयम्, तार्तीयीकम्, तार्तीयीकी शाटी] तृतीयमेव = तार्तीयीकम् । अनेन टीकण्प्र० → ईक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । [मुखतीयः] मुखे = मुखतः । 'आधादिभ्यः' (७।२८४) तसुप्र० → तस् । मुखतो भवः = मुखतीयः । 'गहादिभ्यः' (६।३।६३) ईयप्र० । 'प्रायोऽव्ययस्य' (७४/६५) अस्लुक् । [पार्श्वतीयः] पार्वे = पार्श्वतः । 'आद्यादिभ्यः' (७।२।८४) तसुप्र० → तस् । पार्श्वतो भवः = पार्श्वतीयः । 'गहादिभ्यः' (६।३।६३) ईयप्र० । 'प्रायोऽव्ययस्य' (७४।६५) अस्लुक् । इति तीयस्यानर्थकत्वान्न भवति ॥छ।। निष्फले तिलात् पिञ्ज-पेजौ ॥ ७।२।१५४ ॥ [निष्फले] निष्फल सप्तमी ङि । [तिलात् ] तिल पञ्चमी ङसि । [पिजपेजौ] पिजश्च पेजश्च = पिञ्जपेजौ। [तिलपिञ्जः, तिलपेजः] निष्फलस्तिलः = तिलपिञ्जः, तिलपेजः । अनेन पिञ्ज-पेजप्र० ॥छा। प्रायोऽतोयसट्-मात्रट् ॥ ७।२।१५५ ॥ [प्रायः ] प्रायस् प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [अतोः] अतु पञ्चमी ङसि । [द्वयसमात्रट्] द्वयसट् च मात्रट् च = द्वयसटमात्रट । प्रथमा सि । [यावद्द्वयसम्, यावन्मात्रम् ] यावत् मण्ड्यते । यावदेव = यावद्द्वयसम्, यावन्मात्रम् । अनेन द्वयसटप्र० → द्वयस-मात्रटप्र० → मात्र । 'धुटस्तृतीयः' (२।१७६) त० → द० । 'प्रत्यये च' (१।३।२) द० → न० । [तावद्द्वयसम्, तावन्मात्रम् ] तावदेव = तावद्द्वयसम्, तावन्मात्रम् । अनेन द्वयसप्र० → द्वयस-मात्रटप्र० → मात्र । 'धुटस्तृतीयः' (२।११७६) त० → द० । 'प्रत्यये च' (१।३।२) द० → न० । [एतावद्द्वयसम्, एतावन्मात्रम् ] एतावदेव = एतावद्द्वयसम्, एतावन्मात्रम् । अनेन द्वयसटप्र० → द्वयस-मात्रटप्र० → मात्र । 'धुटस्तृतीयः' (२।१।७६) त० → द० । 'प्रत्यये च' (१।३।२) द० → न० । [कियवयसम्, कियन्मात्रम् ] कियदेव = कियद्वयसम्, कियन्मात्रम् । अनेन द्वयसटप्र० → द्वयस-मात्रटप्र० → मात्र । 'धुटस्तृतीयः' (२।१।७६) त० → द० । 'प्रत्यये च' (१।३।२) द० → न० । [यावतीद्वयसी, यावद्वयसी] स्त्रियां यावतीद्वयसी । सामान्यविवक्षायां प्रत्यये पश्चात् स्त्रीत्वे यावद्वयसी । 'अणजेयेकण्०' (२।४।२०) ङी ॥छा। . . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy