________________
१६६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां ।
[त्रिपदिकाम्] 'दण्डण् दण्डनिपातने' (१८६८) दण्ड् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच् । द्विकर्मकोऽयम् । दण्ड्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । इट् । 'सेट्क्तयोः' (४।३।८४) णिच्लुक् । त्रीन् पादान् दण्डितः = त्रिपदिकाम् । अनेन अकल्प्र० → अक-अकारलुक् । 'य-स्वरे०' (२।१।१०२) पाद्० → पद्भाव: । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । अम् ।
[द्विशतिकाम्] द्वे शते दण्डितः = द्विशतिकाम् । अनेन अकल्प्र० → अक-अकारलुक् च । 'आत्' (२।४।१८) । आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । अम् ।
[द्विमोदकिकाम्] द्वौ मोदको दण्डितः = द्विमोदकिकाम् । अनेन अकल्प्र० → अक-अकारलुक् च । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । अम् ।
[त्रिमोदकिकाम्] त्रीन् मोदकान् दण्डितः = त्रिमोदकिकाम् । अनेन अकल्प्र० → अक-अकारलुक् च । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । अम् ।
वीप्सायाम् - [द्विपदिकां भुङ्क्ते ] द्वौ द्वौ पादौ भुङ्क्ते = द्विपदिकाम् । अनेन अकल्प्र० → अक-अन्त्योऽकारस्य लुक् । 'य-स्वरे पादः०' (२।१।१०२) पाद्० → पद्भावः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ।
[त्रिपदिकाम्] त्रीन् २ पादान् भुङ्क्ते = त्रिपदिकाम् । अनेन अकल्प्र० → अक-अन्त्योऽकारस्य लुक् । “य-स्वरे पाद:०' (२।१।१०२) पाद्० → पद्भावः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११). इ ।
[द्विशतिकाम्] द्वे (२) शते भुङ्क्ते = द्विशतिकाम् । अनेन अकल्प्र० → अक-अन्त्योऽकारस्य लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ ।
[त्रिशतिकाम् ] त्रीणि (२) शतानि भुङ्क्ते = त्रिशतिकाम् । अनेन अकल्प्र० → अक-अन्त्योऽकारस्य लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ। __ [द्विमोदकिकाम्] द्वौ (२) मोदको भुङ्क्ते = द्विमोदकिकाम् । अनेन अकल्प्र० → अक-अन्त्योऽकारस्य लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ ।
- [त्रिमोदकिकाम्] त्रीन् (२) मोदकान् भुङ्क्ते = त्रिमोदकिकाम् । अनेन अकल्प्र० → अक-अन्त्योऽकारस्य लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्' (२।४।१११) इ । __[द्वौ द्वौ माषौ ददाति ] द्वौ द्वौ माषौ ददाति । दान-वीप्सयोर्द्वयोः सद्भावे पुनराप्राप्ति परं पदादयो नाम सन्ति अतोऽकल्प्रत्ययो न भवति ।
चकारो वीप्साया अनुकर्षणार्थः । - ननु अकलि प्रत्यये 'अवर्णेवर्णस्य' (७।४।६८) इति प्रकृत्यन्तस्य लुग्भवति किमर्थं लुग्वचनमित्याशङ्का-लुग्वचनं अनिमित्तलुगर्थम्, तेन पादः पद्भावो भवति । परनिमित्तायां तु लुचि 'स्वरस्य परे०' (७४।११०) इति परिभाषया स्थानिवद्भावान्न स्यात् ॥छ।।
तीयाट्टीकण न विद्या चेत् ॥ ७।२।१५३ ॥ [तीयात् ] तीय पञ्चमी ङसि । [टीकण्] टीकण् प्रथमा सि । [न] न प्रथमा सि । प्रसज्य प्रकटनार्थम्, एवं निर्देशः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org