SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ १६५ [कलशीशो ददाति ] कलश । 'गौरादिभ्यो मुख्यान्ङी:' (२।४।१९) ङी । कलशी(२) ददाति = कलशीशो ददाति । अनेन शस्प्र० सर्वत्र । [क्रमशः] क्रमेण(२) ददाति = क्रमशः । अनेन शसप्र० । यद्यपि क्रमं एकस्तथापि क्रमवतां भेदात् क्रमेण क्रमेणेति वीप्सा भवति । [ तानेकैकशः पृच्छेत् ] एकैकं पृच्छेत् = एकैकशः पृच्छेत् । 'बह्वल्पार्थात्०' (७।२।१५०) शस्प्र० → शस् । [एकैकशोऽपि निघ्नन्ति ] एकैकं निघ्नन्ति = एकैकशोऽपि निघ्नन्ति । 'बह्वल्पार्थात् कारकादिष्टा-ऽनिष्टे एशस्' (७२।१५०) प्रशस्प्र० → शस् । [एकैकशो ददाति ] एकैकं ददाति = एकैकशो ददाति । 'बह्वल्पार्थात्-कारकादिष्टा०' (७।२।१५०) एशस्प्र० → शस् ॥छ। . संख्याऽऽदेः पादादिभ्यो दान-दण्डे चाऽकल् लुक् च ॥ ७।२।१५२ ॥ [संख्याऽऽदेः ] संख्या चासावादिश्च = संख्यादिः, तस्मात् । [पादादिभ्यः] पाद आदिर्येषां ते = पादादयः, तेभ्यः = पादादिभ्यः । पञ्चमी भ्यस् । [दानदण्डे ] दानं च दण्डं च = दानदण्डम्, तस्मिन् । [च] च प्रथमा सि । [अकल्] अकल् प्रथमा सि । 'दीर्घयाब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक् । [लुक्] लुक् प्रथमा सि । [च] च प्रथमा सि । [द्विपदिकां ददाति] द्वौ पादौ ददाति = द्विपदिकां ददाति । अनेन अकल्प्र० अक-अन्त्योऽकारस्य लुक् । 'य-स्वरे पादः पदणि-क्य-घुटि' (२।१।१०२) पाद्० → पद्देशः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्क्षिपकादीनाम्' (२।४।१११) इ । अम् । [त्रिपदिकां ददाति ] त्रीन् पादान् ददाति = त्रिपदिकां ददाति । अनेन अकल्प्र० → अक - अकारलुक् । 'य-स्वरे पाद:०' (२।१।१०२) पाद् → पद्देशः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । अम् । [द्विशतिकां व्यवसृजति] द्वे शते व्यवसृजति = द्विशतिकां व्यवसृजति । अनेन अकल्प्र० → अकअन्त्योऽकारस्य लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । अम् । [द्विमोदकिकां त्यजति] द्वौ मोदकौ त्यजति = द्विमोदकिकां त्यजति । अनेन अकल्प्र० → अक-अन्त्योऽकारस्य लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । अम् । [त्रिमोदकिकां त्यजति] त्रीन् मोदकान् त्यजति = त्रिमोदकिकां त्यजति । अनेन अकल्प्र० → अकअन्त्योऽकारस्य लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्' (२।४।१११) इ । अम् । दण्डे - [द्विपदिकां दण्डितः] द्वौ पादौ दण्डितः = द्विपदिकाम् । अनेन अकल्प्र० → अक-अकारलुक् । 'य-स्वरे पादः पदणि-क्य-घुटि' (२।१।१०२) पाद्० → पद्भावः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११).इ । अम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy