________________
१६४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[द्विशः] द्वौ द्वौ ददाति = द्विशः । [त्रिशः] त्रीणि (२) ददाति = त्रिशः । [तावच्छः ] तावत् (२) ददाति = तावच्छः । [कतिशः ] कति (२) ददाति = कतिशः । [गणशः] गणं (२) ददाति = गणशः । अनेन सर्वत्र शस्प्र० । [एकशो दीयते ] एकैकेन दीयते = एकशो दीयते । [द्विशः ] द्वाभ्यां (२) दीयते = द्विशः ।
[त्रिशः] त्रिभिः (२) दीयते = त्रिशः । अनेन शस्प्र० । 'प्लुप् चादावेकस्य स्यादेः' (७।४।८१) इति द्विर्वचनंआदिविभक्तेश्च लुक् । एवमग्रेऽपि कार्यम् ।
[तावच्छः ] तावता (२) दीयते = तावच्छः । [कतिशः ] कतिभिः (२) दीयते = कतिशः । [गणशः] गणेनासौ दीयते = गणशः । अनेन शस्प्र० । एकार्थम् - [माषशो देहि] माषं माषं देहि = माषशो देहि । [कार्षापणशः ] कार्षापणं (२) देहि = कार्षापणशः । [पणशः] पणं (२) देहि = पणशः । [पादशः] पादं (२) देहि = पादशः । [पलशः] पलं (२) देहि = पलशः । [प्रस्थशः] प्रस्थं (२) देहि = प्रस्थशः । [अर्द्धशः] अर्द्ध (२) देहि = अर्द्धशः । [पर्वशः ] पर्वणि (२) देहि = पर्वशः । [तिलशः] तिलान् (२) देहि = तिलशः । [ सङ्घशः ] सङ्घाय (२) देहि = सङ्घशः । [पूगशः] पूगं (२) देहि = पूगशः । [वृन्दशः ] वृन्दे (२) प्रविशति = वृन्दशः । [पङ्किशः] पङ्कौ (२) प्रविशति = पङ्किशः । [वनशः] वने (२) प्रविशति = वनशः । [कूपीशः खनति ] कूप । 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । कूपी(२) खनति = कूपीशः । [कुम्भीशो ददाति ] कुम्भ । 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । कुम्भी(२) ददाति = कुम्भीशः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org