SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अथवा गच्छति वृद्धिक्षयमिति जगत् । 'गमेडिद् द्वे च' (उणा० ८८५) डित् कतृप्र०-द्विश्च ॥छ।। न द्वित्वे ॥ ७।२।१४७ ॥ [न] न प्रथमा सि । [द्वित्वे] द्वित्व सप्तमी ङि । [ पटत्पटदिति ] पटत् मांडणीयइ-अग्रे इति । 'वीप्सायाम्' (७।४।८०) द्विवचनम् । [घटत्घटदिति ] घटत् मांडणीयइ-अग्रे इति । वीप्सायाम्' (७।४।८०) द्विवचनम् । [झटतझटदिति] झटत् मांडणीयइ-अग्रे इति । 'वीप्सायाम्' (७।४।८०) द्विवचनम् ॥छ।। तो वा ॥७।२।१४८ ॥ [तः] त् षष्ठी ङस् । [वा] वा प्रथमा सि । [पटत्पटेति करोति, पटत्पटदिति करोति ] पटत् इति । 'वीप्सायाम्' (७।४।८०) द्विवचने सति अनेनः । मूलप्रकृतितलोपः । ___ [घटत्घटेति करोति, घटत्घटदिति करोति ] घटत् इति । 'वीप्सायाम्' (७।४।८०) द्विवचने सति अनेन मूलप्रकृतितलोपः ॥छ। डाच्यादौ ॥ ७।२।१४९ ॥ [डाचि] डाच् सप्तमी ङि । [आदौ ] आदि सप्तमी ङि । [पटपटा करोति ] पटत् करोति = पटपटा करोति । 'अव्यक्तानुकरणादनेकस्वरात् कृभ्वस्तिनाऽनितौ द्विश्च' (७।२।१४५) डाचप्र०-द्विर्वचनं च । अनेन त्लुक् प्रकृतिसम्बन्धिनोऽतः । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । [दमदमा करोति ] दमत् करोति = दमदमा करोति । 'अव्यक्तानुकरणादनेकस्वरात्०' (७।२।१४५) डाचप्र०द्विर्वचनं च । अनेन त्लुक् प्रकृतिसम्बन्धिनोऽतः । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । . __[पतपता करोति ] पतं करोति = पतपता करोति । 'अव्यक्तानुकरणादनेकस्वरात्०' (७।२।१४५) डाचप्र०-द्विवचनं च । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् ॥छ।। बह्वल्पार्थात् कारकादिष्टा-ऽनिष्टे शस् ॥ ७।२।१५० ॥ [ बह्वल्पार्थात् ] बहुश्च अल्पश्च = बह्वल्पौ, बह्वल्पौ अर्थौ यस्य सः = बह्वल्पार्थः, तस्मात् । [कारकात्] कारक पञ्चमी ङसि । [इष्टानिष्टे] इष्टं च अनिष्टं च, तस्मिन् । [शस्] पित् शस् = एशस् । प्रथमा सि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy