SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः ॥ १६१ [पटपटा करोति] पटत् मण्ड्य ते । पटत् करोति = पटपटा करोति । अनेन डान्प्र० → आ-द्विर्वचनम् । 'डाच्यादौ' (७।२।१४९) इति द्विवचनतकारलोपः । [ पटपटा भवति ] पटत् भवति = पटपटा भवति । अनेन डाचप्र०-द्विर्वचनम् । 'डाच्यादौ' (७।२।१४९) द्विर्वचनतकारलोपः । [ पटपटा स्यात् ] पटत् स्यात् = पटपटा स्यात् । अनेन डान्प्र०-द्विवचनम् । शेषं पूर्ववत् । [दमदमा करोति] दमत् करोति = दमदमा करोति । [ दमदमा भवति ] दमत् भवति = दमदमा भवति । [ दमदमा स्यात् ] दमत् स्यात् = दमदमा स्यात् । अनेन डाचप्र०-द्विवचनम् । 'डाच्यादौ' (७।२।१४९) द्विर्वचनतकारलोपः । [ असअसा करोति ] असत् करोति = असअसा करोति । अनेन डाचप्र०-द्विवचनम् । 'डाच्यादौ' (७।२।१४९) तलुक् । ___+ खटखटा करोति ] खटत् करोति = खटखटा करोति । अनेन डाचप्र०-द्विवचनम् । 'डाच्यादौ' (७।२।१४९) तलुक् । अव्यक्तवर्णस्यापि कथञ्चिद् ध्वनिमात्रसादृश्यात् व्यक्तवर्णमनुकरणं भवति । [पटिति करोति ] पटत् इति । द्वितीया अम् । 'अव्ययस्य' (३।२।७) अम्लुप् । 'इतावतो लुक्' (७।२।१४६) अल्लुक् ॥छ। इतावतो लुक् ॥ ७।२।१४६ ॥ [इतौ ] इति सप्तमी ङि। [अतः] अत् षष्ठी ङस् । [लुक्] लुक् प्रथमा सि । [पटिति ] पटत् इति मण्ड्यते । अनेन अत्लुक् । [झटिति ] झटत् इति मण्ड्यते । अनेन अत्लुक् । [छमिति] छमत् इति मण्ड्यते । अनेन अत्लुक् । [घटिति ] घटत् इति मण्ड्यते । अनेन अत्लुक् । 'असिद्धं बहिरङ्गमन्तरङ्गे' (न्या० सं० वक्ष०(१)/सूत्र(२०)) इति लुकि सति तृतीयत्वं न भवति । [जगदिति] अम (३९२)-द्रम (३९३)-हम्म (३९४)-मीमृ (३९५)-'गम्लं गतौ' (३९६) गम् । गच्छतीत्येवंशीलम् । 'दिद्युद्-ददृद्-जगज्जुहू-वाक्-प्राट-धी-श्री-द्रू-तू-ज्वायतस्तू-कटप्रू-परिव्राट-भ्राजादयः क्विप्' (५।२।८३) क्विप्र० । निपातनात् द्वित्वम् । 'गमां क्वौ' (४।२।५८) मलोपः । 'हस्वस्य तः पित्कृति' (४।४।११३) ॐ मध्यमवृत्तौ-बृहवृत्तौ-मसमसा करोति । ॐ मध्यमवृत्तौ-बृहवृत्तौ-खरटखरटा करोति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy