SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [दुःखाकरोति शत्रुम् ] दुःखं करोति दुःखाकरोति शत्रुम् । अनेन डाच्प्र० । शत्रोः प्रातिकूल्यं करोति । प्रतिकूलमाचरति । अनभिमतानुष्ठानेन तं पीडयतीत्यर्थः ॥छ । शूलात् पाके ॥ ७।२।१४२ ॥ १६० - [ शूलात् ] शूल पञ्चमी ङसि । [ पाके] पाक सप्तमी ङि । [ शूलाकरोति मांसम् ] शूलं करोति = शूलाकरोति मांसम् । अनेन डाच्प्र० । शूले पचतीत्यर्थः । [ शूलं करोति कदन्नम् ] शूल द्वितीया अम् । करोति । कुत्सितमन्नं = कदन्नम् । 'को: कत् तत्पुरुषे' ( ३।२।१३०) कु० → कत्देशः ॥छ । सत्यादशपथे ॥ ७।२।१४३ ॥ [ सत्यात् ] सत्य पञ्चमी ङसि । [ अशपथे ] न शपथ: = अशपथस्तस्मिन् । [ सत्याकरोति वणिग् भाण्डम् ] सत्यं करोति = सत्याकरोति वणिग् भाण्डम् । अनेन डाच्प्र० । कार्षापणादिदानेन मयावश्यमेवैतत् क्रेतव्यमिति विक्रेतारं प्रत्याययति - प्रत्ययमुत्पादयतीत्यर्थः ॥छ॥ मद्र भद्राद् वपने ॥ ७।२।१४४ ॥ [ मद्रभद्रात् ] मद्रं च भद्रं च = मद्रभद्रम्, तस्मात् । [ वपने] वपन सप्तमी ङि । [ मद्राकरोति ] मद्रं वपनं करोति = मद्राकरोति । अनेन डाच्प्र० आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । आ । 'डित्यन्त्यस्वरादेः' [ भद्राकरोति नापित: ] भद्रं करोति भद्राकरोति नापितः । अनेन डाच्प्र० (२|१|११४) अलुक् । शिशोर्मङ्गल्यं केशच्छेदनं करोतीत्यर्थः । मद्र- भद्रशब्दौ मङ्गल्यवचनौ ||छ || = Jain Education International अव्यक्तानुकरणादनेकस्वरात् कृ-भ्वस्तिनाऽनितौ द्विश्च ॥ ७।२।१४५ ॥ [ अव्यक्तानुकरणात् ] अव्यक्तस्य अनुकरणम् = अव्यक्तानुकरणम्, तस्मात् । [ अनेकस्वरात् ] न विद्यते एकः स्वरो यस्य तत् = अनेकस्वरम् तस्मात् । [ कृभ्वस्तिना ] कृश्च ( का च) भूश्च अस्तिश्च = कृभ्वस्ति, तेन । [ अनितौ ] न इति = अनिति, तस्मिन् । [ द्वि: ] द्वौ वारावस्य = द्विः । 'द्वि-त्रि- चतुरः सुच्' (७२।११०) सुच्प्र० → [च] च प्रथमा सि । यस्मिन् ध्वनावकारादयो वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः, तस्यानुकरणमव्यक्तानुकरणम्, तस्मात् । द्विश्चास्य डाच्प्रत्ययस्य प्रकृतिरुच्यते । प्रत्ययस्य द्विर्वचनानर्थक्यात् । For Personal & Private Use Only स् । 'अव्ययस्य' (३।२।७) लुप् । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy